व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ।। 1.13.
विना विपत्तेर्महिमा पुंसां नैव भवेत्सुत
इत्येवमुक्त्वा स विधिरगच्छत्पुष्कराद् गृहम्
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम्
इडां सुषुम्नां मेधां च पिङ्गलां प्राणहारिणीम्
विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा
बुद्धिसंचारिणीं चैव ज्ञानजृम्भनकारिणीम्
एताः षोडशधा नाडीर्भित्त्वा वै हंसमेव च
स्थित्वा मुहूर्तमात्मानमात्मन्येव युयोज ह
वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च
संजल्पन्परमं ब्रह्म वेदसारं परात्परम् 1.13.
प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम्
गन्धर्वराजस्तं दृष्ट्वा भार्य्यया सह तत्क्षणम्
पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भुशम्
पञ्चाशद्योषितां मध्ये प्रधाना महिषी च या
उच्चै रुरोद सा तीव्रं कान्तं कृत्वा च वक्षसि
मालावत्युवाच दर्शनं देहि मां बन्धो निमग्नां शोकसागरे
विस्रम्भके सुवसने रम्ये चन्दनकानने
चन्दनाचलसान्निध्ये चारुचन्दनकानने
गन्धमादनशैलैकदेशे रम्ये नदीतटे
श्रीशैले श्रीवने दिव्ये श्रीनिवासनिषेविते 1.13.
पुरा या या कृता क्रीडा वसन्ते रहसि त्वया
सुधातुल्येन वचसा सिक्ताऽहं च पुरा त्वया
साधुना सह संसर्गो वैकुण्ठादपि दुर्लभः
तस्मात्तेषां च विच्छेदः साधुशोककरः परः
ततोऽपत्यवियोगो हि मरणादतिरिच्यते
शयने भोजने स्नाने स्वप्ने जागरणेऽपि च
सर्वशोकं विस्मरेत्स्त्री स्वामिसंयोगमात्रतः
नातो विशिष्टं पश्यामि बान्धवं स्वामिना विना
हे दिगीशाश्च दिक्पाला हे धर्म त्वं प्रजापते