वर्षमेकं निराहारो भारते पुण्यदे शुभे
आगत्य तं हरिस्तस्मै वाञ्छितं च वरं ददौ
दत्त्वा जगाम वैकुण्ठमिन्द्रः क्षीरोदमेव च
सुरेश्वरोऽरिं जित्वा वै ह्यलभच्चामरावतीम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शक्रलक्ष्मीप्राप्तिर्नामैकविंशतितमोऽध्यायः
नारद उवाच महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन
नारायण उवाच आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम्
तमुवाच हृषीकेशो वरं वृणु यथेप्सितम्
वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे
श्रीमधुसूदन उवाच परमैश्वर्य्यजनकं सर्वशत्रुविमर्दनम्
ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते
बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः
पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत्
मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया
केशान्केशवकान्ता च कपालं कमलालया
ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः
ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम्
ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा
इति ते कथितं वत्स सर्वसम्पत्करं परम्
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन
इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः
नारायण उवाच सन्तुष्टश्च जगन्नाथो जगतां हितकारणम्
ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा
ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम्
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम्
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम्
शान्तां च श्रीहरेः कान्तां तां भजेज्जगतां प्रसूम्
ध्यानेनानेन देवेन्द्रो ध्यात्वा लक्ष्मीं मनोहराम्
स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव