प्रवृत्तिं कथयामास वाक्पतिस्तं प्रजापतिम्
ब्रह्मोवाच लक्ष्मीसमशचीभर्त्ता परस्त्रीलोलुपः सदा
गौतमस्याभिशापेन भगांगः सुरसंसदि
यः परस्त्रीषु निरतस्तस्य श्री वा कुतो यशः
नैवेद्यं श्रीहरेरेव दत्तं दुर्वाससा च ते
क्व सा रम्भा सर्वभोग्या क्वाधुना त्वं श्रिया हतः
वेश्या सश्रीकमिच्छन्ती निःश्रीकं न च चञ्चला
यद्गतं तद्गतं वत्स निष्पन्नं न निवर्त्तते
इत्युक्त्वा तं जगत्स्रष्टुः स्तोत्रं च कवचं ददौ
स तैः सार्द्धं च गुरुणा ह्यजपन्मन्त्रमीप्सितम्
वर्षमेकं निराहारो भारते पुण्यदे शुभे
आगत्य तं हरिस्तस्मै वाञ्छितं च वरं ददौ
दत्त्वा जगाम वैकुण्ठमिन्द्रः क्षीरोदमेव च
सुरेश्वरोऽरिं जित्वा वै ह्यलभच्चामरावतीम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शक्रलक्ष्मीप्राप्तिर्नामैकविंशतितमोऽध्यायः
नारद उवाच महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन
नारायण उवाच आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम्
तमुवाच हृषीकेशो वरं वृणु यथेप्सितम्
वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे
श्रीमधुसूदन उवाच परमैश्वर्य्यजनकं सर्वशत्रुविमर्दनम्
ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते
बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः
पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत्
मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया
केशान्केशवकान्ता च कपालं कमलालया
ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः
ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे संततं चिरम्
ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा
इति ते कथितं वत्स सर्वसम्पत्करं परम्
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः