यावत्तडागे तोयानि तावद्यादांसि तेषु च
त्वं देवानामीश्वरोऽसि कामिनीनां च वाञ्छितः
युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम्
दुश्शीलं रोगिणं वृद्धं रतिशक्तिवियोजितम्
का मूढा न च वाञ्छन्ति त्वामेवं गुणसागरम्
इत्युक्त्वा सस्मिता सा च तं पपौ वक्रचक्षुषा
ज्ञात्वा भावं स्मरार्त्तायाः स्मरशास्त्रविशारदः
चुचुम्ब रहसि प्रौढां नग्नां च सुभगां वराम्
नानाप्रकारशृङ्गाराद्विपरीतादिकान्मुने
तौ कामाहितचित्तौ नो बुबुधाते दिवानिशम्
स च कृत्वा स्थले क्रीडां तया सह सुरेश्वरः
स चकार जलक्रीडां तया सह मुदा क्षणम्
एतस्मिन्नन्तरे तेन वर्त्मना मुनिपुंगवः
तं च दृष्ट्वा मुनीन्द्रं च देवेन्द्रः स्तब्धमानसः
पारिजातप्रसूनं यद्दत्तं नारायणेन वै
दत्त्वा पुष्पं महाभागस्तमुवाच कृपानिधिः
दुर्वासा उवाच मूर्ध्नीदं यस्य देवेन्द्र जयस्तस्यैव सर्वतः
पुरःपूजा च सर्वेषां देवानामग्रणीर्भवेत्। तच्छायेव महालक्ष्मीर्न जहाति कदाऽपि तम्
भक्त्या मूर्ध्नि न गृह्णाति योऽहंकारेण पामरः इत्युक्त्वा शंकरांशश्च ह्यगमच्छंकरालयम्
तत्स रम्भांतिके तिष्ठंश्चिक्षेप गजमस्तके
पुंश्चली योग्यमिच्छन्ती नापरं चञ्चलाऽधमा
प्रविवेश महारण्यं तं निक्षिप्य स्वतेजसा
साऽतो बभूव वशगा योषिज्जातिः सुखार्थिनी
हरिस्तन्मस्तकं छित्त्वा योजयामास बालके गजास्ययोजनायाश्च कारणं पापनाशनम्
नारद उवाच बभूवुस्तद्रहस्यं च गोपनीयं सुदुर्लभम्
कथं वा प्रापुरेते तां कमलां जगतां प्रसूम्
नारायण उवाच भ्रष्टश्रीर्दैन्ययुक्तश्च स जगामामरावतीम्
तां ददर्श निरानन्दो निरानन्दां पुरीं मुने
इति श्रुत्वा दूतमुखाज्जगाम गुरुमन्दिरम्
गत्वा ननाम तं शक्रः सुरैः सार्द्धं तथा गुरुः