अत्युन्नतं सुकठिनं पत्रराजिविराजितम्
सर्वशोभां सुवेषाढ्यां सुभगां सुरतोत्सुकाम्
वरामप्सरसां रम्यामतीव स्थिरयौवनाम्
दृष्ट्वा तामतिवेषाढ्यां तत्कटाक्षेण पीडितः
इन्द्र उवाच मया दृष्टा हि सुचिरात्कल्याणि सुभगेऽधुना
तवान्वेषणकर्त्ताऽहं श्रुत्वा वाचिकमग्रतः
सुवासितजलार्थी यः किमिच्छेत्पङ्किलं जलम्
सुधार्थी न सुरामिच्छेद्दुग्धार्थी नाविलं जलम्
स्वर्गी च नरकं नेच्छेत्सुभोगी दुष्टभोजनम् विहाय रत्नाभरणं कोऽपीच्छेल्लोहभूषणम्
त्वां नाश्लिष्य महाविज्ञां कां मूढो गन्तुमिच्छति
इन्द्रियैश्चेन्द्रियरतिं वर्द्धयन्तीं पदे पदे
कामयुक्तश्च पुरतस्तस्थौ तस्याश्च नारद
श्रुत्वा तद्वचनं रम्भा महाशृङ्गारलोलुपा
स्मेरानना कटाक्षेण स्तनोर्वोर्दर्शनेन च
मितं सारं सुमधुरं सुस्निग्धं कोमलं प्रियम्
रम्भोवाच नाहं सन्तोषजननी धूर्त्तानां दुष्टमित्रता
यथा मधुकरो लोभात्सर्वपुष्पासवं लभेत्
तथैव कामुकी लोके भ्रमेद्भ्रमरवत्सदा
सुपुमानङ्गवत्स्त्रीणां यथा शाखाश्च शाखिषु
स्वकार्य्यमुद्धरेद्यावत्तावद्वा स प्रयोजनम्
यावत्तडागे तोयानि तावद्यादांसि तेषु च
त्वं देवानामीश्वरोऽसि कामिनीनां च वाञ्छितः
युवानं रसिकं शान्तं सुवेषं सुन्दरं प्रियम्
दुश्शीलं रोगिणं वृद्धं रतिशक्तिवियोजितम्
का मूढा न च वाञ्छन्ति त्वामेवं गुणसागरम्
इत्युक्त्वा सस्मिता सा च तं पपौ वक्रचक्षुषा
ज्ञात्वा भावं स्मरार्त्तायाः स्मरशास्त्रविशारदः
चुचुम्ब रहसि प्रौढां नग्नां च सुभगां वराम्
नानाप्रकारशृङ्गाराद्विपरीतादिकान्मुने
तौ कामाहितचित्तौ नो बुबुधाते दिवानिशम्