शृणु तात प्रवक्ष्येऽहमितिहासं पुरातनम्
एकदैव महेन्द्रश्च पुष्पभद्रां नदीं ययौ
तत्तीरेऽतिरहःस्थाने पुष्पोद्याने मनोहरे
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रवे
ददर्श रम्भां तत्रैव चन्द्रलोकात्समागताम्
इच्छन्तीमीप्सितां क्रीडां गच्छन्तीं मदनाश्रमम्
सुश्रोणीं सुदतीं श्यामां बिम्बाधरसरोरुहाम्
सस्मितास्यशरच्चन्द्रां सुकटाक्षं च बिभ्रतीम्
वह्निशुद्धांशुकधरां रत्नभूषणभूषिताम्
नीलोत्पलदलश्यामकज्जलोज्जललोचनाम्
अत्युन्नतं सुकठिनं पत्रराजिविराजितम्
सर्वशोभां सुवेषाढ्यां सुभगां सुरतोत्सुकाम्
वरामप्सरसां रम्यामतीव स्थिरयौवनाम्
दृष्ट्वा तामतिवेषाढ्यां तत्कटाक्षेण पीडितः
इन्द्र उवाच मया दृष्टा हि सुचिरात्कल्याणि सुभगेऽधुना
तवान्वेषणकर्त्ताऽहं श्रुत्वा वाचिकमग्रतः
सुवासितजलार्थी यः किमिच्छेत्पङ्किलं जलम्
सुधार्थी न सुरामिच्छेद्दुग्धार्थी नाविलं जलम्
स्वर्गी च नरकं नेच्छेत्सुभोगी दुष्टभोजनम् विहाय रत्नाभरणं कोऽपीच्छेल्लोहभूषणम्
त्वां नाश्लिष्य महाविज्ञां कां मूढो गन्तुमिच्छति
इन्द्रियैश्चेन्द्रियरतिं वर्द्धयन्तीं पदे पदे
कामयुक्तश्च पुरतस्तस्थौ तस्याश्च नारद
श्रुत्वा तद्वचनं रम्भा महाशृङ्गारलोलुपा
स्मेरानना कटाक्षेण स्तनोर्वोर्दर्शनेन च
मितं सारं सुमधुरं सुस्निग्धं कोमलं प्रियम्
रम्भोवाच नाहं सन्तोषजननी धूर्त्तानां दुष्टमित्रता
यथा मधुकरो लोभात्सर्वपुष्पासवं लभेत्
तथैव कामुकी लोके भ्रमेद्भ्रमरवत्सदा
सुपुमानङ्गवत्स्त्रीणां यथा शाखाश्च शाखिषु
स्वकार्य्यमुद्धरेद्यावत्तावद्वा स प्रयोजनम्