पुष्करं गच्छतं शीघ्रं भास्करं भजतं सुतौ
तौ निषेव्य दिनेशं तं नीरुजौ संबभूवतुः
सर्वविघ्नहरं सारं विघ्नेशं विघ्ननाशनम्
नारद उवाच तेजसा विक्रमेणैव मत्प्रश्नं श्रोतुमर्हसि
विघ्ननिघ्नस्य यद्विघ्नं श्रुतं तत्परमाद्भुतम्
अधुना श्रोतुमिच्छामि परं सन्देहभञ्जनम्
स्थितेष्वन्येषु बहुषु जन्तुष्वब्जभुवः पते
श्रीनारायण उवाच गोप्यं सर्वपुराणेषु वेदेषु च सुदुर्लभम्
तारणं सर्वदुःखानां कारणं सर्वसम्पदाम्
महालक्ष्म्याश्च चरितं सर्वमङ्गलमङ्गलम्
शृणु तात प्रवक्ष्येऽहमितिहासं पुरातनम्
एकदैव महेन्द्रश्च पुष्पभद्रां नदीं ययौ
तत्तीरेऽतिरहःस्थाने पुष्पोद्याने मनोहरे
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रवे
ददर्श रम्भां तत्रैव चन्द्रलोकात्समागताम्
इच्छन्तीमीप्सितां क्रीडां गच्छन्तीं मदनाश्रमम्
सुश्रोणीं सुदतीं श्यामां बिम्बाधरसरोरुहाम्
सस्मितास्यशरच्चन्द्रां सुकटाक्षं च बिभ्रतीम्
वह्निशुद्धांशुकधरां रत्नभूषणभूषिताम्
नीलोत्पलदलश्यामकज्जलोज्जललोचनाम्
अत्युन्नतं सुकठिनं पत्रराजिविराजितम्
सर्वशोभां सुवेषाढ्यां सुभगां सुरतोत्सुकाम्
वरामप्सरसां रम्यामतीव स्थिरयौवनाम्
दृष्ट्वा तामतिवेषाढ्यां तत्कटाक्षेण पीडितः
इन्द्र उवाच मया दृष्टा हि सुचिरात्कल्याणि सुभगेऽधुना
तवान्वेषणकर्त्ताऽहं श्रुत्वा वाचिकमग्रतः
सुवासितजलार्थी यः किमिच्छेत्पङ्किलं जलम्
सुधार्थी न सुरामिच्छेद्दुग्धार्थी नाविलं जलम्
स्वर्गी च नरकं नेच्छेत्सुभोगी दुष्टभोजनम् विहाय रत्नाभरणं कोऽपीच्छेल्लोहभूषणम्
त्वां नाश्लिष्य महाविज्ञां कां मूढो गन्तुमिच्छति