बालकस्य च तस्यैव मङ्गलं मङ्गले दिने पूज्यानामधिको बालस्तेनोपबर्हणाभिधः
सौतिरुवाच गन्धर्वराजः प्रददौ ब्राह्मणेभ्यो मुदाऽन्वितः
उपबर्हणस्तु कालेन हरेर्मन्त्रं सुदुर्लभम्
एकदा गण्डकीतीरे तं च सम्प्राप्तयौवनम्
ताश्च तीव्रं तपः कृत्वा प्राणान्संत्यज्य योगतः
उपबर्हणगन्धर्वं ताश्च तं वव्रिरे पतिम्
गृहीत्वा ताश्च गन्धर्वो युवा सुस्थिरयौवनः
ततोऽपि सुचिरं राज्यं कृत्वा ताभिः सहानिशम्
दृष्ट्वा स रम्भारम्भोरुनर्तने कठिनं स्तनम्
द्रुतं तत्याज सङ्गीतं मूर्च्छां प्राप सभातले
व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ।। 1.13.
विना विपत्तेर्महिमा पुंसां नैव भवेत्सुत
इत्येवमुक्त्वा स विधिरगच्छत्पुष्कराद् गृहम्
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम्
इडां सुषुम्नां मेधां च पिङ्गलां प्राणहारिणीम्
विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा
बुद्धिसंचारिणीं चैव ज्ञानजृम्भनकारिणीम्
एताः षोडशधा नाडीर्भित्त्वा वै हंसमेव च
स्थित्वा मुहूर्तमात्मानमात्मन्येव युयोज ह
वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च
संजल्पन्परमं ब्रह्म वेदसारं परात्परम् 1.13.
प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम्
गन्धर्वराजस्तं दृष्ट्वा भार्य्यया सह तत्क्षणम्
पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भुशम्
पञ्चाशद्योषितां मध्ये प्रधाना महिषी च या
उच्चै रुरोद सा तीव्रं कान्तं कृत्वा च वक्षसि
मालावत्युवाच दर्शनं देहि मां बन्धो निमग्नां शोकसागरे
विस्रम्भके सुवसने रम्ये चन्दनकानने
चन्दनाचलसान्निध्ये चारुचन्दनकानने
गन्धमादनशैलैकदेशे रम्ये नदीतटे