ॐ ह्रीं नमो भगवते सूर्य्याय परमात्मने स्वाहा संपूज्य भक्त्या दत्त्वा वै चोपहारांस्तु षोडश
अपूर्वं कवचं तस्य युवाभ्यां प्रददाम्यहम्
तत्सहस्रभगाङ्गाय शापेन गौतमस्य च
बृहस्पतिरुवाच यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते
कवचं बिभ्रतो व्याधिर्न भिया याति सन्निधिम्
शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत्
जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः व्याधिप्रणाशे सौन्दर्य्ये विनियोगः प्रकीर्त्तितः
सद्योरोगहरं सारं सर्वपापप्रणाशनम्
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु
चक्षुर्मे पातु सूर्यश्च तारकां च विकर्तनः
प्रचण्डः पातु गण्डं मे मार्तण्डः कर्णमेव च
वक्षः पातु रविः शश्वन्नाभिं सूर्य्यः स्वयं सदा
करौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः
इति ते कथितं वत्स कवचं सुमनोहरम्
पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे
व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः
लक्षवर्षहविष्येण यत्फलं लभते नरः
इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत्
ब्रह्मोवाच युवां व्याधिविनिर्मुक्तौ निश्चितं तु भविष्यथः
स्तवनं सामवेदोक्तं सूर्य्यस्य व्याधिमोचनम्
ब्रह्मोवाच त्वामहं स्तोतुमिच्छामि भक्तानुग्रहकारकम्
त्रैलोक्यलोचनं लोकनाथं पापविमोचनम्
कर्मानुरूपफलदं कर्मबीजं दयानिधिम्
ब्रह्मविष्णुमहेशानामंशं च त्रिगुणात्मकम् सुखदं मोक्षदं सारं भक्तिदं सर्वकामदम्
सर्वेश्वरं सर्वरूपं साक्षिणं सर्वकर्मणाम्
शश्वद्रसहरं पश्चाद्रसदं सर्वसिद्धिदम्
स्तवराजमिदं प्रोक्तं गुह्याद्गुह्यतरं परम्
आन्ध्यं कुष्ठं च दारिद्र्यं रोगः शोको भयं कलिः
महाकुष्ठी च गलितश्चक्षुर्हीनो महाव्रणी
मासं कृत्वा हविष्यान्नं श्रुत्वाऽतो मुच्यते ध्रुवम्