श्रीसूर्य्योऽमोघशूलेनाशनितुल्येन तेजसा
ददर्श कश्यपः पुत्रं मृतमुत्तानलोचनम्
हाहाकारं सुराश्चक्रुर्विलेपुर्भयकातराः
निष्प्रभं तनयं दृष्ट्वा चाशपत्कश्यपः शिवम्
मत्पुत्रस्य यथा वक्षश्छिन्नं शूलेन तेऽद्य वै
शिवश्च गलितक्रोधः क्षणेनैवाशुतोषकः
ब्रह्मविष्णुमहेशानामंशश्च त्रिगुणात्मकः
ननाम पितरं भक्त्या शंकरं भक्तवत्सलः
विषयान्नैव जग्राह कोपेनैवमुवाच ह
सर्वं तुच्छमनित्यं च नश्वरं चेश्वरं विना
देवैश्च प्रेरितो ब्रह्मा समागत्य ससम्भ्रमः
तस्मै दत्त्वाऽऽशिषश्शम्भुर्ब्रह्मा च स्वालयं मुदा
अथ माली सुमाली च व्याधिग्रस्तौ बभूवतुः
तावुवाच स्वयं ब्रह्मा युवां च भजतां रविम्
सूर्य्यस्य कवचं स्तोत्रं सर्वपूजाविधिं विधिः
ततस्तौ पुष्करं गत्वा सिषेवाते रविं मुने
ततः सूर्य्याद्वरं प्राप्य निजरूपौ बभूवतुः
नारद उवाच दानवाभ्यां पुरा दत्तं सूर्यस्य परमात्मनः
किं वा पूजाविधानं वा किं मन्त्रं व्याधिनाशनम्
सूत उवाच स्तोत्रं च कवचं मन्त्रमूचे तत्पूजनक्रमम्
नारायण उवाच स्तोत्रं च कवचं सर्वं पापव्याधिविमोचकम्
सुमालिमालिनौ दैत्यौ व्याधिग्रस्तौ बभूवतुः
ब्रह्मा गत्वा च वैकुण्ठं पप्रच्छ कमलापतिम्
ब्रह्मोवाच क उपायो वद हरे तयोर्व्याधिविनाशने
विष्णुरुवाच व्याधिहन्तुर्मदंशस्य तौ च मुक्तौ भविष्यतः
तयोस्तु मन्त्रं संप्राप्य ययौ दैत्यगृहं विधिः
तावुवाच स्वयं ब्रह्मा रोगग्रस्तौ दयानिधिः
ब्रह्मोवाच गत्वा हि पुष्करं वत्सौ भजथः प्रणतौ रविम्
तावूचतुः किं स्तोत्रं कवचं किं वा तदावाभ्यां वदाधुना
ब्रह्मोवाच संसेव्य भास्करं भक्त्या नीरुजौ च भविष्यथ