परमानन्दसंयुक्तो देव्या सह महेश्वरः पुष्टिं ददौ विवाहेन गणेशाय महात्मने
सुताभ्यां सगणैः सार्द्धं पार्वती हृष्टमानसा
इत्येवं कथितं सर्वं कुमारस्याभिषेचनम्
पार्वतीपुत्रलाभश्च देवानां च समागमः
नारद उवाच पृच्छामि त्वामहं किंचिदतिसन्देहवान्यतः
सुतस्य त्रिदशेशस्य शंकरस्य महात्मनः
परिपूर्णतमः श्रीमान्परमात्मा परात्परः
अहो भगवतस्तस्य मस्तकच्छेदनं विभो
नारायण उवाच विघ्नेशस्य बभूवेदं विघ्नं येन च नारद
एकदा शंकरः सूर्य्यं जघान परमष्टधा
श्रीसूर्य्योऽमोघशूलेनाशनितुल्येन तेजसा
ददर्श कश्यपः पुत्रं मृतमुत्तानलोचनम्
हाहाकारं सुराश्चक्रुर्विलेपुर्भयकातराः
निष्प्रभं तनयं दृष्ट्वा चाशपत्कश्यपः शिवम्
मत्पुत्रस्य यथा वक्षश्छिन्नं शूलेन तेऽद्य वै
शिवश्च गलितक्रोधः क्षणेनैवाशुतोषकः
ब्रह्मविष्णुमहेशानामंशश्च त्रिगुणात्मकः
ननाम पितरं भक्त्या शंकरं भक्तवत्सलः
विषयान्नैव जग्राह कोपेनैवमुवाच ह
सर्वं तुच्छमनित्यं च नश्वरं चेश्वरं विना
देवैश्च प्रेरितो ब्रह्मा समागत्य ससम्भ्रमः
तस्मै दत्त्वाऽऽशिषश्शम्भुर्ब्रह्मा च स्वालयं मुदा
अथ माली सुमाली च व्याधिग्रस्तौ बभूवतुः
तावुवाच स्वयं ब्रह्मा युवां च भजतां रविम्
सूर्य्यस्य कवचं स्तोत्रं सर्वपूजाविधिं विधिः
ततस्तौ पुष्करं गत्वा सिषेवाते रविं मुने
ततः सूर्य्याद्वरं प्राप्य निजरूपौ बभूवतुः
नारद उवाच दानवाभ्यां पुरा दत्तं सूर्यस्य परमात्मनः
किं वा पूजाविधानं वा किं मन्त्रं व्याधिनाशनम्
सूत उवाच स्तोत्रं च कवचं मन्त्रमूचे तत्पूजनक्रमम्