श्वेतच्छत्रं रत्नमालां ददौ तस्मै जलेश्वरः
मनोयायिरथं सूर्य्यः सन्नाहं च मनोरमम् नानाशस्त्राण्युपायानि सर्वे देवा ददुर्मुदा
कामशास्त्रं कामदेवो ददौ तस्मै मुदाऽन्वितः
पार्वती सस्मिता हृष्टा परमानन्दमानसा
बुद्धिं सुनिर्मलां शान्तिं तुष्टिं पुष्टिं क्षमां धृतिम्
प्रजापतिर्देवसेनां रत्नभूषणभूषिताम्
ददौ तस्मै वेदमन्त्रैर्विवाहविधिना स्वयम्
अभिषिच्य कुमारं च सर्वे देवा ययुर्गृहम्
नारायणं च ब्रह्माणं धर्मं तुष्टाव शंकरः
प्रीत्या ययौ च शैलेन्द्रः सगणः शंकरार्चितः
परमानन्दसंयुक्तो देव्या सह महेश्वरः पुष्टिं ददौ विवाहेन गणेशाय महात्मने
सुताभ्यां सगणैः सार्द्धं पार्वती हृष्टमानसा
इत्येवं कथितं सर्वं कुमारस्याभिषेचनम्
पार्वतीपुत्रलाभश्च देवानां च समागमः
नारद उवाच पृच्छामि त्वामहं किंचिदतिसन्देहवान्यतः
सुतस्य त्रिदशेशस्य शंकरस्य महात्मनः
परिपूर्णतमः श्रीमान्परमात्मा परात्परः
अहो भगवतस्तस्य मस्तकच्छेदनं विभो
नारायण उवाच विघ्नेशस्य बभूवेदं विघ्नं येन च नारद
एकदा शंकरः सूर्य्यं जघान परमष्टधा
श्रीसूर्य्योऽमोघशूलेनाशनितुल्येन तेजसा
ददर्श कश्यपः पुत्रं मृतमुत्तानलोचनम्
हाहाकारं सुराश्चक्रुर्विलेपुर्भयकातराः
निष्प्रभं तनयं दृष्ट्वा चाशपत्कश्यपः शिवम्
मत्पुत्रस्य यथा वक्षश्छिन्नं शूलेन तेऽद्य वै
शिवश्च गलितक्रोधः क्षणेनैवाशुतोषकः
ब्रह्मविष्णुमहेशानामंशश्च त्रिगुणात्मकः
ननाम पितरं भक्त्या शंकरं भक्तवत्सलः
विषयान्नैव जग्राह कोपेनैवमुवाच ह
सर्वं तुच्छमनित्यं च नश्वरं चेश्वरं विना