नानाप्रकारवाद्यैश्च रुद्रैर्वा पार्षदैः सह
अथ शक्तिधरो हृष्टो दृष्ट्वा ऽऽरात्पार्वतीं तदा
तं पद्माप्रमुखं देवीगणं च मुनिकामिनीम्
कार्त्तिकेयं शिवा दृष्ट्वा क्रोडे कृत्वा चुचुम्ब च
पार्वतीप्रमुखा देव्यस्तथा देवश्च शङ्करः
कुमारः स गणैः सार्द्धमागत्य च शिवालयम्
रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम्
तं दृष्ट्वा जगतां नाथं भक्तिनम्रात्मकन्धरः
विधिं धर्मं च देवांश्च मुनीन्द्रांश्च मुदाऽन्वितान्
पृथक्संभाष्य सर्वांश्चाप्युवास कनकासने
नारायण उवाच रत्नसिंहासने रम्ये वासयामास षण्मुखम्
नानाविधानि वाद्यानि कांस्यतालादिकानि च
वेदमन्त्राभिषिक्तैश्च सर्वर्तीर्थोदपूर्णकैः
सद्रत्नसारखचितं किरीटं मङ्गलाङ्गदे
वह्निशुद्धांशुके दिव्ये क्षीरोदार्णवसम्भवम्
ब्रह्मा ददौ यज्ञसूत्रं वेदा वै वेदमातरम्
कमण्डलुं च ब्रह्मास्त्रं विद्यां वै वैरिमर्दिनीम्
परं मृत्युञ्जयं ज्ञानं सर्वशास्त्रावबोधनम्
योगतत्त्वं सिद्धितत्त्वं ब्रह्मज्ञानं सुदुर्लभम् संहारास्त्रविनिक्षेपं तत्संहारे ददौ शिवः
श्वेतच्छत्रं रत्नमालां ददौ तस्मै जलेश्वरः
मनोयायिरथं सूर्य्यः सन्नाहं च मनोरमम् नानाशस्त्राण्युपायानि सर्वे देवा ददुर्मुदा
कामशास्त्रं कामदेवो ददौ तस्मै मुदाऽन्वितः
पार्वती सस्मिता हृष्टा परमानन्दमानसा
बुद्धिं सुनिर्मलां शान्तिं तुष्टिं पुष्टिं क्षमां धृतिम्
प्रजापतिर्देवसेनां रत्नभूषणभूषिताम्
ददौ तस्मै वेदमन्त्रैर्विवाहविधिना स्वयम्
अभिषिच्य कुमारं च सर्वे देवा ययुर्गृहम्
नारायणं च ब्रह्माणं धर्मं तुष्टाव शंकरः
प्रीत्या ययौ च शैलेन्द्रः सगणः शंकरार्चितः