वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम्
पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम्
ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने
राजहंसं मयूरं च खञ्जनं च शुकं पिकम्
कृष्णसारं च सुरभिं चमरीं श्वेतचामरम्
नानाप्रकारवाद्यं चाप्यश्रौषीन्मंगलध्वनिम्
दृष्ट्वा श्रुत्वा मङ्गलं स ह्यगमत्तातमन्दिरम्
कुमारः प्राप्य कैलासं न्यग्रोधाक्षयमूलके
पार्वती मंगलं कृत्वा राजमार्गं मनोहरम्
रम्भास्तम्भसमूहैश्च पट्टसूत्रांशुकैस्तथा
पूर्णकुम्भजलैर्व्याप्तं सिक्तं चन्दनवारिभिः
नटनर्त्तकवेश्यानामुत्सवैः संकुलं सदा
पतिपुत्रवतीभिश्च साध्वीभिश्च समन्वितम्
अरुन्धतीमहल्यां च दितिं तारां मनोरमाम्
अनसूयां तथा स्वाहां संज्ञां वरुणकामिनीम्
तामेकपाटलामेकपर्णां मैनाककामिनीम्
रम्भा तिलोत्तमा मेना घृताची मोहिनी शुभा
कदम्बमाला सुरसा वनमाला च सुन्दरी
संगीतनर्त्तनपराः सस्मिता वेषसंयुताः
देवाश्च मुनयः शैला गन्धर्वाः किन्नरास्तथा
नानाप्रकारवाद्यैश्च रुद्रैर्वा पार्षदैः सह
अथ शक्तिधरो हृष्टो दृष्ट्वा ऽऽरात्पार्वतीं तदा
तं पद्माप्रमुखं देवीगणं च मुनिकामिनीम्
कार्त्तिकेयं शिवा दृष्ट्वा क्रोडे कृत्वा चुचुम्ब च
पार्वतीप्रमुखा देव्यस्तथा देवश्च शङ्करः
कुमारः स गणैः सार्द्धमागत्य च शिवालयम्
रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकारकम्
तं दृष्ट्वा जगतां नाथं भक्तिनम्रात्मकन्धरः
विधिं धर्मं च देवांश्च मुनीन्द्रांश्च मुदाऽन्वितान्