कृष्णायत्तं च तद्दैवं स च दैवात्परस्ततः
दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया
तस्माद्भजत गोविन्दं मोहं त्यजत दुःखदम्
परमानन्दजननं मोहजालनिकृन्तनम्
कोऽहं भवाब्धौ युष्माकं का वा यूयं ममात्मिकाः
संश्लेषं वा वियोगं वा सर्वमीश्वरचिन्तया
जलबुद्बुदवत्सर्वमनित्यं च जगत्त्रयम्
सन्तस्तत्र न लिप्यन्ते वायुवत्कृष्णचेतसः
इत्येवमुक्त्वा ता नत्वा सार्द्धं शङ्करपार्षदैः
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम्
सद्रत्नसाररचितं माणिक्येन विराजितम्
मणीन्द्रदर्पणः श्वेतचामरैरतिदीपितम्
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम्
समारुहन्तं यानं ता हृदयेन विदूयता
दृष्ट्वा च स्वपुरः स्कन्दं स्तंभिताश्चातिशोकतः
कृत्तिका ऊचुः विहायास्मान्क्व यासि त्वं नायं धर्म्मस्तवाधुना
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं स्वधर्मतः
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि तं सुतम्
कुमारो बोधयित्वा ता अध्यात्मवचनेन वै
पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यानि दर्पणम्
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम्
पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम्
ददर्शैतानि वस्तूनि मङ्गलानि पुरो मुने
राजहंसं मयूरं च खञ्जनं च शुकं पिकम्
कृष्णसारं च सुरभिं चमरीं श्वेतचामरम्
नानाप्रकारवाद्यं चाप्यश्रौषीन्मंगलध्वनिम्
दृष्ट्वा श्रुत्वा मङ्गलं स ह्यगमत्तातमन्दिरम्
कुमारः प्राप्य कैलासं न्यग्रोधाक्षयमूलके
पार्वती मंगलं कृत्वा राजमार्गं मनोहरम्
रम्भास्तम्भसमूहैश्च पट्टसूत्रांशुकैस्तथा