तासामहं पोष्यपुत्रो मदम्बाः पोषणादिमाः
न गर्भजोऽहं शैलेन्द्रकन्याया नन्दिकेश्वर
स्तनदात्री गर्भधात्री भक्ष्यदात्री गुरुप्रिया
सगर्भकन्या भगिनी पुत्रपत्नी प्रियाप्रसूः
मातुः पितुश्च भगिनी मातुलानी तथैव च
इमाश्च सर्वसिद्धिज्ञाः परमैश्वर्य्यसंयुताः
विष्णुना प्रेरितस्त्वं च शम्भोः पुत्रसमो महान्
नारायण उवाच उवाच किंचिद्युक्तं च वचनं शङ्करात्मजः
कार्तिकेय उवाच मातरं बन्धुवर्गांश्चाप्याज्ञां मे दत्त मातरः
दैवाधीनं जगत्सर्वं जन्म कर्म शुभावहम्
कृष्णायत्तं च तद्दैवं स च दैवात्परस्ततः
दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया
तस्माद्भजत गोविन्दं मोहं त्यजत दुःखदम्
परमानन्दजननं मोहजालनिकृन्तनम्
कोऽहं भवाब्धौ युष्माकं का वा यूयं ममात्मिकाः
संश्लेषं वा वियोगं वा सर्वमीश्वरचिन्तया
जलबुद्बुदवत्सर्वमनित्यं च जगत्त्रयम्
सन्तस्तत्र न लिप्यन्ते वायुवत्कृष्णचेतसः
इत्येवमुक्त्वा ता नत्वा सार्द्धं शङ्करपार्षदैः
एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम्
सद्रत्नसाररचितं माणिक्येन विराजितम्
मणीन्द्रदर्पणः श्वेतचामरैरतिदीपितम्
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम्
समारुहन्तं यानं ता हृदयेन विदूयता
दृष्ट्वा च स्वपुरः स्कन्दं स्तंभिताश्चातिशोकतः
कृत्तिका ऊचुः विहायास्मान्क्व यासि त्वं नायं धर्म्मस्तवाधुना
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं स्वधर्मतः
इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि तं सुतम्
कुमारो बोधयित्वा ता अध्यात्मवचनेन वै
पूर्णकुम्भं द्विजं वेश्यां शुक्लधान्यानि दर्पणम्