रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान्
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः
दृष्ट्वा तान्कृत्तिकाः सर्वा भयविह्वलमानसाः
कृत्तिका ऊचुः न जानीमो वयं कस्य करालानि च बालक
कार्त्तिकेय उवाच दुर्निवार्य्यः कर्मपाको मातरः केन वार्य्यते
एतस्मिन्नन्तरे तत्र सेनानीर्नन्दिकेश्वरः
नन्दिकेश्वर उवाच प्रेषितस्य सुरेन्द्रस्य संहर्तुः शंकरस्य च
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः
शैलेन्द्रकन्या तं विष्णुं जगतां परिपालकम्
पप्रच्छ देवान्विष्णुस्तान्क्रमेणावाप्तिहेतवे
त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वरम् या बभूव रहःक्रीडा पार्वतीशिवयोः पुरा
दृष्टस्य च सुरैः शम्भोवीर्य्यं भूमौ पपात ह ततो लब्धः कृत्तिकाभिरमूभिर्गच्छ साम्प्रतम्
तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां गोप्तुं न क्षमा इमाः
नाग्निं गोप्तुं यथा शक्तः शुष्कवृक्षः स्वकोटरे यथा पतन्महाकूपे द्विजराजो न राजते
करोषि जगदालोकं नाच्छन्नोऽस्याङ्गतेजसा
विष्णुस्त्वं च जगद्व्यापी नासां व्याप्योऽसि शाम्भव
योगीन्द्रो नानुलिप्तस्त्वं भोगी च परिपोषणे
विश्वाधारस्त्वमीशश्च नामृते सम्भवेत्स्थितिः
नहि सर्वेश्वरावासः सम्भवेत्कृत्तिकालये
त्वां च देवा न जानन्ति भक्तानुग्रह विग्रहम्
त्वामनिर्वचनीयं च कथं जानन्ति कृत्तिकाः
भ्रातर्ये यं न जानन्ति ते तं कुर्वन्त्यनादरम्
कार्त्तिकेय उवाच ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः
कर्मणा जन्म येषां वा यासु यासु च योनिषु
ये यत्र सन्ति सन्तो वा मूढा वा कर्मभोगतः
साम्प्रतं जगतां माता विष्णुमाया सनातनी
शैलेन्द्रपत्नी गर्भे सा चालभज्जन्म भारते
ब्रह्मादितृणपर्य्यन्तं सर्वं मिथ्यैव कृत्रिमम्
कल्पे कल्पे जगन्माता माता मे प्रतिजन्मनि
प्रकृतेरुद्भवास्सत्यं जगत्यां सर्वयोषितः