यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम्
ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते
श्रीधर्म उवाच मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः
क्षितिरुवाच अतीव दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि
अग्निरुवाच दुर्बलस्य जगन्नाथ किं यशः किं च पौरुषम्
वायुरुवाच अतीव सुन्दरो विष्णो स्वर्णरेखानदीतटे
श्रीसूर्य्य उवाच प्रेरितः कालचक्रेण निशि संस्थातुमक्षमः
चन्द्र उवाच जगाम स्वालयं विष्णो गच्छन्बदरिकाश्रमात्
जलमुवाच वर्द्धयामासुरीशस्य तं ताः सूर्य्याधिकप्रभम्
सन्ध्ये ऊचतुः तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकेय इति स्वयम्
रात्रिरुवाच प्राणेभ्योऽपि प्रेमपात्रं यः पोष्टा तस्य पुत्रकः
दिनमुवाच प्रशंसितानि स्वादूनि भोजयामासुरेव तम्
तेषां तद्वचनं श्रुत्वा सन्तुष्टो मधुसूदनः
पुत्रस्य वार्त्तां सम्प्राप्य पार्वती हृष्टमानसा ददौ सर्वाणि विप्रेभ्यो वासांसि विविधानि च
लक्ष्मीः सरस्वती मेना सावित्री सर्वयोषितः
नारायण उवाच प्रेरितो विष्णुना देवैर्मुनिभिः पर्वतैर्मुने
दूतान्प्रस्थापयामास महाबलपराक्रमान्
नन्दीश्वरं महाकालं वज्रदन्तं भगन्दरम्
लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम्
कूष्माण्डानां चतुर्लक्षं त्रिलक्षं ब्रह्मराक्षसान्
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान्
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः
दृष्ट्वा तान्कृत्तिकाः सर्वा भयविह्वलमानसाः
कृत्तिका ऊचुः न जानीमो वयं कस्य करालानि च बालक
कार्त्तिकेय उवाच दुर्निवार्य्यः कर्मपाको मातरः केन वार्य्यते
एतस्मिन्नन्तरे तत्र सेनानीर्नन्दिकेश्वरः
नन्दिकेश्वर उवाच प्रेषितस्य सुरेन्द्रस्य संहर्तुः शंकरस्य च
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः
शैलेन्द्रकन्या तं विष्णुं जगतां परिपालकम्
पप्रच्छ देवान्विष्णुस्तान्क्रमेणावाप्तिहेतवे