सर्वे देवास्त्वत्पुरतस्तदन्विष्यन्तु सादरम्
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः
श्रीविष्णुरुवाच शिवस्यामोघवीर्य्यं यत्तत्पुरा केन निर्हृतम्
सभामानयत क्षिप्रं न चेद्दण्डमिहार्हथ
विष्णोस्तद्वचनं श्रुत्वा समालोच्य परस्परम्
ब्रह्मोवाच स वञ्चितो भवत्वत्र पुण्याहे पुण्यकर्मणि
श्रीमहादेव उवाच स वञ्चितो भवत्वत्र सेवने पूजने तव
यम उवाच एकादशीव्रते चैव तद्वीर्य्यं येन निर्हृतम्
इन्द्र उवाच भवत्वत्र यशो लुप्तं तत्पुण्यं कर्म सन्ततम्
वरुण उवाच शूद्रयाजकपत्न्याश्च गर्भे तद्येन निर्हृतम्
कुबेर उवाच सत्यघ्नश्च कृतघ्नश्च तद्वीर्यं येन निर्हृतम्
ईशान उवाच नरघाती गुरुद्रोही तद्वीर्यं येन निर्हृतम्
रुद्रा ऊचुः गुरुनिन्दारताः शश्वत्तद्वीर्य्यं यैश्च निर्हृतम्
कामदेव उवाच भाजनं तस्य पापस्य स भवेद्येन तद्धृतम्
स्वर्वैद्यावूचतुः भवेतां वञ्चितौ तौ च याभ्यां वीर्य्यं च तद्धृतम्
सर्वे देवा ऊचुः अपुत्रिणो दरिद्राश्च यैश्च वीर्य्यं हि तद्धृतम्
देवपत्न्य ऊचुः सन्तु बुद्धिविहीनाश्च याभिर्वीर्य्यं हि तद्धृतम्
देवानां वचनं श्रुत्वा देवीनां च हरिस्स्वयम्
पवनं पृथिवीं तोयं सन्ध्ये रात्रिं दिवं मुने
श्रीविष्णुरुवाच तदमोघं भगवतो महेशस्य जगद्गुरोः
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम्
ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते
श्रीधर्म उवाच मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः
क्षितिरुवाच अतीव दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि
अग्निरुवाच दुर्बलस्य जगन्नाथ किं यशः किं च पौरुषम्
वायुरुवाच अतीव सुन्दरो विष्णो स्वर्णरेखानदीतटे
श्रीसूर्य्य उवाच प्रेरितः कालचक्रेण निशि संस्थातुमक्षमः
चन्द्र उवाच जगाम स्वालयं विष्णो गच्छन्बदरिकाश्रमात्
जलमुवाच वर्द्धयामासुरीशस्य तं ताः सूर्य्याधिकप्रभम्
सन्ध्ये ऊचतुः तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकेय इति स्वयम्