श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले
मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः
अश्वमेधसहस्राणि वाजपेयशतानि च
इदं कवचमज्ञात्वा यो भजेच्छंकरात्मजम्
इति संसारमोहनं नाम कवचम् परमानन्दसंयुक्ता देवास्तस्थुः समीपतः
नारायण उवाच गन्धर्वा मुनयः शैलाः पश्यन्तः सुमहोत्सवम्
एतस्मिन्नन्तरे दुर्गा स्मेराननसरोरुहा
पार्वत्युवाच कथं मत्स्वामिनो वीर्य्यममोघं रक्षितं प्रभो
रतिभङ्गे कृते देवैर्ब्रह्मणा प्रेरितैस्त्वया
सर्वे देवास्त्वत्पुरतस्तदन्विष्यन्तु सादरम्
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः
श्रीविष्णुरुवाच शिवस्यामोघवीर्य्यं यत्तत्पुरा केन निर्हृतम्
सभामानयत क्षिप्रं न चेद्दण्डमिहार्हथ
विष्णोस्तद्वचनं श्रुत्वा समालोच्य परस्परम्
ब्रह्मोवाच स वञ्चितो भवत्वत्र पुण्याहे पुण्यकर्मणि
श्रीमहादेव उवाच स वञ्चितो भवत्वत्र सेवने पूजने तव
यम उवाच एकादशीव्रते चैव तद्वीर्य्यं येन निर्हृतम्
इन्द्र उवाच भवत्वत्र यशो लुप्तं तत्पुण्यं कर्म सन्ततम्
वरुण उवाच शूद्रयाजकपत्न्याश्च गर्भे तद्येन निर्हृतम्
कुबेर उवाच सत्यघ्नश्च कृतघ्नश्च तद्वीर्यं येन निर्हृतम्
ईशान उवाच नरघाती गुरुद्रोही तद्वीर्यं येन निर्हृतम्
रुद्रा ऊचुः गुरुनिन्दारताः शश्वत्तद्वीर्य्यं यैश्च निर्हृतम्
कामदेव उवाच भाजनं तस्य पापस्य स भवेद्येन तद्धृतम्
स्वर्वैद्यावूचतुः भवेतां वञ्चितौ तौ च याभ्यां वीर्य्यं च तद्धृतम्
सर्वे देवा ऊचुः अपुत्रिणो दरिद्राश्च यैश्च वीर्य्यं हि तद्धृतम्
देवपत्न्य ऊचुः सन्तु बुद्धिविहीनाश्च याभिर्वीर्य्यं हि तद्धृतम्
देवानां वचनं श्रुत्वा देवीनां च हरिस्स्वयम्
पवनं पृथिवीं तोयं सन्ध्ये रात्रिं दिवं मुने
श्रीविष्णुरुवाच तदमोघं भगवतो महेशस्य जगद्गुरोः