नारद उवाच कवचं श्रोतुमिच्छामि साम्प्रतं भवतारणम्
नारायण उवाच उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम्
शनैश्चर उवाच कवचं विघ्ननिघ्नस्य वद वेदविदांवर
बभूव नो विवादश्च शक्त्या वै मायया सह
श्रीविष्णुरुवाच सुगोप्यं च पुराणेषु दुर्लभं चागमेषु च
उक्तं कौथुमशाखायां सामवेदे मनोहरम्
राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्य्यज
आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया
पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति सन्ततम्
यथा मदवतारेषु जन्मविग्रहधारणम्
यद्धृत्वा मुनयः सर्वे जीवन्मुक्ताश्च भारते
कवचं बिभ्रतां मृत्युर्न भिया याति सन्निधिम्
दश लक्षजपेनैव सिद्धं तु कवचं भवेत्
सुसिद्धकवचो वाग्मी चिरंजीवी महीतले
मालामन्त्रमिमं पुण्यं कवचं मङ्गलं शुभम्
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः
बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा
आधयो व्याधयश्चैव शोकाश्चैव भयावहाः
ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत्
संसारमोहकस्यास्य कवचस्य प्रजापतिः धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः
सर्वेषां कवचानां च सारभूतमिदं मुने द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु
ॐ ह्रीं क्लीं श्रीं गमिति वै सततं पातु लोचनम्
ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिकाम् दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदा ऽवतु
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं परम्
प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः
पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मजः
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम्