संपूज्यानेन मन्त्रेण देवा आनन्दसंप्लुताः
ब्राह्मणान्भोजयामासुः कारयामासुरुत्सवम्
नारायण उवाच तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम्
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम्
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम्
संसारार्णवपारे च मायापोते सुदुर्लभे
वरं वरेण्यं वरदं वरदानामपीश्वरम्
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम्
बीजं संसारवृक्षाणामंकुरं च तदाश्रयम्
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम्
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः
इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत्
तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम्
तेन दृष्टं च दुस्स्वप्नं सुस्वप्नमुपजायते
भवेद्विनाशः शत्रूणां बन्धूनां चापि वर्द्धनम्
स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्द्धनम्
फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम्
नारद उवाच कवचं श्रोतुमिच्छामि साम्प्रतं भवतारणम्
नारायण उवाच उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम्
शनैश्चर उवाच कवचं विघ्ननिघ्नस्य वद वेदविदांवर
बभूव नो विवादश्च शक्त्या वै मायया सह
श्रीविष्णुरुवाच सुगोप्यं च पुराणेषु दुर्लभं चागमेषु च
उक्तं कौथुमशाखायां सामवेदे मनोहरम्
राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्य्यज
आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया
पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति सन्ततम्
यथा मदवतारेषु जन्मविग्रहधारणम्