सिद्धासनं ददौ धर्मस्तस्मै ब्रह्मा कमण्डलुम्
रत्नसिंहासनं शक्रः सूर्य्यश्च मणिकुण्डले
वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः
क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम्
कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम्
मुनयः पर्वताश्चैव रत्नानि विविधानि च
क्रमेण देवा देव्यश्च मुनयः पर्वतादयः
नानाविधानि द्रव्याणि स्वादूनि मधुराणि च
पार्वती जगतां माता स्मेराननसरोरुहा
सर्वतीर्थोदकै रत्नकलशावर्जितैः स्तुतैः अग्निशुद्धे च वसने ददौ तस्मै सती मुदा
गोदावर्युदकैः पाद्यमर्घ्यं गंगोदकेन च
पुष्करोदकमानीय पुनराचमनीयकम्
पारिजातप्रसूनानामन्येषां शतकानि च पूजार्हाणि च पत्राणि तुलसीसहितानि च
चन्दनागुरुकस्तूरी कुंकुमानि च सादरम्
नैवेद्यं तत्प्रियं चैव तिललड्डुकपर्वतान्
पक्वान्नानां पर्वताश्च सुस्वादुसुमनोहरान्
गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा
लक्षाणि दधिपूर्णानां कलशानां च पूजने
सर्पिस्सुवर्णकुम्भानां पंचलक्षाणि सादरम्
खर्जूराणां कपित्थानां जम्बूनां विविधानि च । फलानि नारिकेलानामसंख्यानि ददौ मुदा
अन्यानि परिपक्वानि कालदेशोद्भवानि च
स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम्
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
शैलराजप्रिया मात्याः पुपूजुः शैलजात्मजम्
ॐ श्रीं ह्रीं क्लीं गणेश्वराय ब्रह्मरूपाय चारवे
इत्यनेनैव मन्त्रेण दत्त्वा द्रव्याणि भक्तितः
द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामद
पञ्चलक्षजपेनैव मन्त्रसिद्धिस्तु मन्त्रिणः
विघ्नानि च पलायन्ते तन्नामस्मरणेन च
वाक्पतिर्गुरुतां याति तस्य साक्षात्सुनिश्चितम्