त्रिशूलपट्टिशधरं वृषभस्थं दिगम्बरम्
तप्तस्वर्णप्रभाजुष्टजटाजालधरं वरम्
संहर्तारं च सर्वेषां कालं मृत्युंजयं परम्
तत्त्वज्ञानप्रदं शांतं मुक्तिदं हरिभक्तिदम्
वसिष्ठदत्तस्तोत्रेण तुष्टाव परमेश्वरम् स ययाचे हरे भक्तिं पुत्रं परमवैष्णवम्
गन्धर्वस्य वचः श्रुत्वा चाह सीच्चन्द्रशेखरः 1.12.
श्रीमहादेव उवाच गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला
आत्मनः कुलकोटिं च शतं मातामहस्य च
त्रिविधानि च पापानि कोटिजन्मार्जितानि च
तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्
कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः
चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो
धनं संचितमस्माकं वैष्णवानां सुदुर्लभम्
वरयान्यं वरं वत्स यत्ते मनसि वांछितम् 1.12.
सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम्
शङ्करस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुकः
गन्धर्व उवाच तद्ब्रह्मत्वं स्वप्नतुल्यं कृष्णभक्तो न चेच्छति
इन्द्रत्वममरत्वं वा सिद्धियोगादिकं शिव
सालोक्यसार्ष्टिसामीप्यसायुज्यं श्रीहरेरपि
शश्वत्तत्र दृढा भक्तिर्हरिदास्यं सुदुर्लभम्
तद्दास्यं वैष्णवसुतं देहि कल्पतरो वरम्
न दास्यसीदं चेच्छम्भो वरं दुष्कृतिनं च माम्
गन्धर्ववचनं श्रुत्वा तमुवाच कृपानिधिः
श्रीशंकर उवाच चिरायुषं च गुणिनं शश्वत्सुस्थिरयौवनम् ।। 1.12.
ज्ञानिनं सुन्दरवरं गुरुभक्तं जितेन्द्रियम्
इत्युक्त्वा शंकरस्तस्माज्जगाम स्वालयं मुने
प्रफुल्लमानसाः सर्वे मानवाः सिद्धकर्मणः
सुषाव पुत्रं सा वृद्धा पर्वते गन्धमादने