आशिषं युयुजे विष्णुः शिशुं च शिशुमातरम्
ब्रह्मा ददौ स्वमुकुटं धर्मो वै रत्नभूषणम्
तुष्टाव तं महादेवश्चात्यन्तं हृष्टमानसः
अश्वानां च गजानां च सहस्राणि शतानि च
हिमालयश्च संतुष्टो हृष्टा देवाश्च तत्र वै
ब्राह्मणान्भोजयामास कारयामास मङ्गलम्
शनिं संलज्जितं दृष्ट्वा पार्वती कोपशालिनी
दृष्ट्वा शप्तं शनिं सूर्य्यः कश्यपश्च यमस्तथा
रक्ताक्षास्ते रक्तमुखाः कोपप्रस्फुरिताधराः
ब्रह्मा तान्बोधयामास विष्णुना प्रेरितः सुरैः
ब्रह्माणमूचुस्ते तत्र क्रमेण समयोचितम्
कश्यप उवाच बालं ददर्श यत्नेन तस्य वै मातुराज्ञया
श्रीसूर्य्य उवाच यत्पुत्रोऽतिप्रयत्नेन ह्यपश्यत्पार्वतीसुतम्
यथा निरपराधेन मत्पुत्रं सा शशाप ह
यम उवाच वयं शपामः कोऽधर्मो जिघांसोश्च विहिंसने
ब्रह्मोवाच सर्वेषां वचनेनैव क्षन्तुमर्हन्तु साधवः
दुर्गे दत्त्वा त्वमाज्ञां च पुत्रदर्शनहेतवे
इत्युक्त्वा शनिमादाय बोधयित्वा च पार्वतीम्
बभूव पार्वती तुष्टा ब्रह्मणो वचनान्मुने
उवाच पार्वती तत्र सन्तुष्टा तं शनैश्चरम्
पार्वत्युवाच चिरजीवी च योगीन्द्रो हरिभक्तस्य का विपत्
अद्यप्रभृति निर्विघ्ना हरौ भक्तिर्दृढाऽस्तु ते
इत्युक्त्वा पार्वती तुष्टा बालं धृत्वा च वक्षसि
शनिर्जगाम देवानां समीपं हृष्टमानसः
नारायण उवाच पूजयामास तं बालमुपहारैरनुत्तमैः
सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम
वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम्
ददौ द्रव्याणि चारूणि चोपचारांश्च षोडश
विघ्नेशश्च गणेशश्च हेरम्बश्च गजाननः
एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च