विषण्णमानसः पूर्वं शुष्ककण्ठौष्ठतालुकः
शनेश्च दृष्टिमात्रेण चिच्छिदे मस्तकं मुने
तस्थौ च पार्वतीक्रोडे तत्सर्वाङ्गं सलोहितम्
मूर्च्छा संप्राप सा देवी विलप्य च भृशं मुहुः
विस्मितास्ते सुराः सर्वे चित्रपुत्तलिका यथा
तान्सर्वान्मूर्च्छितान्दृष्ट्वैवारुह्य गरुडं हरिः
पुष्पभद्रानदीतीरे ह्यपश्यत्कानने स्थितम्
तथोदक्छिरसं रम्यं मूर्च्छितं सुरतश्रमात्
शीघ्रं सुदर्शनेनैव चिच्छिदे तच्छिरो मुदा
गजच्छिन्नाङ्गविक्षेपात्प्रबोधं प्राप्य हस्तिनी रुरोद शावकैः सार्द्धं सा विलप्य शुचातुरा
तुष्टाव कमलाकान्तं शान्तं सस्मितमीश्वरम् गरुडस्थं जगत्कान्तं भ्रामयन्तं सुदर्शनम्
निषेकं खण्डितुं शक्तं निषेकजनकं विभुम्
प्रभुस्तत्स्तवनात्तुष्टस्तस्यै विप्र वरं ददौ
जीवयामास तं तत्र ब्रह्मज्ञानेन सर्ववित्
त्वं जीवाकल्पपर्य्यन्तं परिवारैः समं गज
आहृत्य पार्वतीहस्ताद्बालं कृत्वा स्ववक्षसि
ब्रह्मस्वरूपो भगवान्ब्रह्मज्ञानेन लीलया
पार्वतीं बोधयित्वा तु कृत्वा क्रोडे च तं शिशुम्
विष्णुरुवाच जगद्बुद्धिस्वरूपाऽसि त्वं न जानासि किं शिव
कल्पकोटिशतं भोगी जीविनां तत्स्वकर्मणा
इन्द्रः स्वकर्मणा कीटयोनौ जन्म लभेत्सति
सिंहोऽपि मक्षिकां हन्तुमक्षमः प्राक्तनं विना
सुखं दुःख भयं शोकमानन्दं कर्मणः फलम्
इहैव कर्मणो भोगः परत्र च शुभाशुभैः
कर्मणः फलदाता च विधाता च विधेरपि
संहर्तुरपि संहर्त्ता पातुः पाता परात्परः
वयं यस्य कलाः पुंसो ब्रह्मविष्णुमहेश्वराः
कलांशाः केऽपि तद्धर्मे कलाशांशाश्च केचन
श्रीविष्णोर्वचनं श्रुत्वा परितुष्टा च पार्वती
तुष्टाव पार्वती तुष्टा प्रेरिता शंकरेण च