प्रधानद्वारमासाद्य शिवतुल्यपराक्रमम्
शनैश्चर उवाच विष्णुप्रमुखदेवानां मुनीनामनुरोधतः
आज्ञां देहि च मां गन्तुं पार्वतीसन्निधिं बुध
विशालाक्ष उवाच मार्गं दातुं न शक्तोऽहं विना मन्मातुराज्ञया
इत्युक्त्वाऽभ्यन्तरभ्येत्य प्रेरितः स शिवाज्ञया
शनिरभ्यन्तरं गत्वा चानमन्नम्रकन्धरः
सखीभिः पञ्चभिः शश्वत्सेवितां श्वेतचामरैः
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्
नतं सूर्य्यसुतं दृष्ट्वा दुर्गा संभाष्य सत्वरम्
पार्वत्युवाच किं न पश्यसि मां साधो बालकं वा ग्रहेश्वर
शनिरुवाच शुभाशुभं च यत्कर्म कोटिकल्पैर्न लुप्यते
कर्मणा जायते जन्तुर्ब्रह्मेन्द्रार्य्यममन्दिरे
कर्मणा नरकं याति वैकुण्ठं याति कर्मणा
कर्मणा सुन्दरः शश्वद्व्याधियुक्तः स्वकर्मणा
कर्मणा धनवाँल्लोको दैन्ययुक्तः स्वकर्मणा
सुभार्यश्च सुपुत्रश्च सुखी शश्वत्स्वकर्मणा
इतिहासं चातिगोप्यं शृणु शङ्करवल्लभे
आबाल्यात्कृष्णभक्तोऽहं कृष्णध्यानैकमानसः
पिता ददौ विवाहे तु कन्यां चित्ररथस्य च
एकदा सा त्वृतुस्नाता सुवेषं स्वं विधाय च
हरेः पादं ध्यायमानं पश्यन्ती मदमोहिता
शशाप मामपश्यन्तमृतुनाशाच्च कोपतः
न दृष्टाऽहं त्वया येन न कृतं ह्यृतुरक्षणम् त्वया दृष्टं च यद्वस्तु मूढ सर्वं विनश्यति
अहं च विरतो ध्यानात्तोषयंस्तां तदा सतीम्
तेन मातर्न पश्यामि किञ्चिद्वस्तु स्वचक्षुषा
शनैश्चरवचः श्रुत्वा चाहसत्पार्वती मुने
नारायण उवाच ईश्वरेच्छावशीभूतं जगदेवेत्युवाच ह
सा च देवी दैववशा शनिं प्रोवाच कौतुकात्
पार्वत्या वचनं श्रुत्वा शनिर्मेने हृदा स्वयम् यदि बालो मया दृष्टस्तस्य विघ्नो भवेद्ध्रुवम्
अन्यथा सुप्रशस्तं च पुरतः स्वात्मरक्षणम् बालं द्रष्टुं मनश्चक्रे न तु तन्मातरं शनिः