एतैर्विनाऽन्ये बहवो ब्रह्मपुत्राश्च सन्ततम्
अपूज्यः पुत्रशापेन स्वयं ब्रह्मा प्रजापतिः
नारदो गुरुशापेन गन्धर्वश्च बभूव सः
गन्धर्वराजः सर्वेषां गन्धर्वाणां वरो महान्
गुर्वाज्ञया पुष्करे स परमेण समाधिना
शिवस्य कवचं स्तोत्रं मन्त्रं च द्वादशाक्षरम् 1.12.
जजाप परमं मन्त्रं दिव्यं वर्षशतं मुने
विरामे शतवर्षस्य ददर्श पुरतः शिवम्
महत्तेजस्स्वरूपं च भगवन्तं सनातनम्
तपोरूपं तपोबीजं तपस्याफलदं फलम्
त्रिशूलपट्टिशधरं वृषभस्थं दिगम्बरम्
तप्तस्वर्णप्रभाजुष्टजटाजालधरं वरम्
संहर्तारं च सर्वेषां कालं मृत्युंजयं परम्
तत्त्वज्ञानप्रदं शांतं मुक्तिदं हरिभक्तिदम्
वसिष्ठदत्तस्तोत्रेण तुष्टाव परमेश्वरम् स ययाचे हरे भक्तिं पुत्रं परमवैष्णवम्
गन्धर्वस्य वचः श्रुत्वा चाह सीच्चन्द्रशेखरः 1.12.
श्रीमहादेव उवाच गन्धर्वराज वृणुषे को वा तृप्तोऽतिमङ्गले
यस्य भक्तिर्हरौ वत्स सुदृढा सर्वमङ्गला
आत्मनः कुलकोटिं च शतं मातामहस्य च
त्रिविधानि च पापानि कोटिजन्मार्जितानि च
तावत्पत्नी सुतस्तावत्तावदैश्वर्य्यमीप्सितम्
कृष्णे मनसि संजाते भक्तिखड्गो दुरत्ययः
भवेद्येषां सुकृतिनां पुत्राः परमवैष्णवाः
चरितार्थः पुमानेकाद्वरमिच्छुर्वरादहो
धनं संचितमस्माकं वैष्णवानां सुदुर्लभम्
वरयान्यं वरं वत्स यत्ते मनसि वांछितम् 1.12.
सर्वसिद्धिं महायोगं ज्ञानं मृत्युजयादिकम्
शङ्करस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुकः
गन्धर्व उवाच तद्ब्रह्मत्वं स्वप्नतुल्यं कृष्णभक्तो न चेच्छति
इन्द्रत्वममरत्वं वा सिद्धियोगादिकं शिव