मेनकोवाच श्रीयुक्तः श्रीपतिसमो धर्म्मे धर्मसमो भव
वसुन्धरोवाच निर्विघ्नो विघ्ननिघ्नश्च भव वत्स शुभाश्रयः
पार्वत्युवाच मृत्युञ्जयश्च भगवान्भवत्वतिविशारदः
ऋषयो मुनयः सिद्धाः सर्वे युयुजुराशिषः
सर्वं ते कथितं वत्स सर्वमङ्गलमङ्गलम्
इमं सुमंगलाध्यक्षं यः शृणोति सुखं यतः
अपुत्रो लभते पुत्रमधनो लभते धनम्
भार्य्यार्थी लभते भार्य्यां प्रजार्थी लभते प्रजाम्
भ्रष्टपुत्रं नष्टधनं प्रोषितं च प्रियं लभेत्
यत्पुण्यं लभते मर्त्यो गणेशाख्यानकश्रुतौ
अयं च मङ्गलाध्यायो यस्य गेहं च तिष्ठति
यात्राकाले च पुण्याहे यः शृणोति समाहितः
नारायण उवाच देवैश्च मुनिभिः सार्द्धमवसत्तत्र संसदि
दक्षिणे शंकरस्तस्य वामे ब्रह्मा प्रजापतिः
तथा धर्मसमीपे च सूर्य्यः शक्रः कलानिधिः
ननर्त्त नर्त्तकश्रेणी जगुर्गन्धर्व किन्नराः
एतस्मिन्नन्तरे तत्र द्रष्टुं शङ्करनन्दनम्
अत्यन्तनम्रवदन ईषन्मुद्रितलोचनः
तपःफलाशी तेजस्वी ज्वलदग्निशिखोपमः
प्रणम्य विष्णुं ब्रह्माणं शिवं धर्मं रविं सुरान्
प्रधानद्वारमासाद्य शिवतुल्यपराक्रमम्
शनैश्चर उवाच विष्णुप्रमुखदेवानां मुनीनामनुरोधतः
आज्ञां देहि च मां गन्तुं पार्वतीसन्निधिं बुध
विशालाक्ष उवाच मार्गं दातुं न शक्तोऽहं विना मन्मातुराज्ञया
इत्युक्त्वाऽभ्यन्तरभ्येत्य प्रेरितः स शिवाज्ञया
शनिरभ्यन्तरं गत्वा चानमन्नम्रकन्धरः
सखीभिः पञ्चभिः शश्वत्सेवितां श्वेतचामरैः
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम्
नतं सूर्य्यसुतं दृष्ट्वा दुर्गा संभाष्य सत्वरम्
पार्वत्युवाच किं न पश्यसि मां साधो बालकं वा ग्रहेश्वर