सदन्नं पुरतो दृष्ट्वा मनः पूर्णं तथा मम
प्रीत्या स्तनं ददौ तस्मै परमानन्दमानसा
चुचुम्ब गण्डे वेदोक्तं युयुजे चाशिषं मुदा
नारायण उवाच विविधानि च रत्नानि द्विजेभ्यो ददतुर्मुदा
बन्दिभ्यो भिक्षुकेभ्यश्च दानानि विविधानि च
हिमालयश्च रत्नानां ददौ लक्षं द्विजातये
दशलक्षं गवां चैव पञ्चलक्षं सुवर्णकम्
अन्यान्यपि च दानानि वस्त्राण्याभरणानि च
ब्राह्मणेभ्यो ददौ विष्णुः कौस्तुभं कौतुकान्वितः सुदुर्लभानि सृष्टौ च ब्राह्मणेभ्यो ददौ मुदा
धर्मः सूर्य्यश्च शक्रश्च देवाश्च मुनयस्तथा
माणिक्यानां सहस्राणि रत्नानां च शतानि च
हरिद्वर्णमणीन्द्राणां सहस्राणि मुदाऽन्विताः अमूल्यान्यन्यरत्नानि श्वेतवर्णानि कौतुकात्
शतलक्षं सुवर्णानां वह्निशुद्धांशुकानि च
हारं चामूल्यरत्नानां त्रिषु लोकेषु दुर्लभम्
परिष्कृतं च माणिक्यैर्हीरकैश्च विराजितम्
त्रैलोक्यसारं हारं च सद्रत्नगणनिर्मितम्
लक्षं सुवर्णलोष्टानां धनानि विविधानि च
दानानि दत्त्वा विप्रेभ्यस्ते सर्वे ददृशुः शिशुम्
भारं वोढुमशक्ताश्च ब्राह्मणा बन्दिनस्तथा
कथयन्ति कथाः सर्वे विश्रान्ताः पूर्वदायिनाम्
विष्णुः प्रमुदितस्तत्र वादयामास दुन्दुभिम् वेदांश्च पाठयामास पुराणानि च नारद
मुनीन्द्रानानयामास पूजयामास तान्मुदा सार्द्धं देवश्चै देवीभिर्ददौ तस्मै शुभाशिषः
विष्णुरुवाच पराक्रमे मया तुल्यः सर्वसिद्धीश्वरो भव
ब्रह्मोवाच सर्वेषां पुरतः पूजा भवत्वतिसुदुर्लभा
धर्म्म उवाच सर्वज्ञश्च दयायुक्तो हरिभक्तो हरेः समः
महादेव उवाच विद्यावान्पुण्यवाञ्छान्तो दान्तश्च प्राणवल्लभ
लक्ष्मीरुवाच पतिव्रता मया तुल्या शान्ता कान्ता मनोहरा
सरस्वत्युवाच स्मृतिर्विवेचनाशक्तिर्भवत्वतितरां सुत
सावित्र्युवाच मन्मन्त्रजपशीलश्च प्रवरो वेदवादिनाम्
हिमालय उवाच श्रीकृष्णतुल्यो गुणवान्भव कृष्णपरायणः