हदयस्थं च यद्रूपं तदेवातिमनोहरम् चुचुम्बानन्दजलधौ निमग्ना सेत्युवाच तम्
संप्राप्यामूल्यरत्नं त्वां पूर्णमेव सनातनम्
कान्ते सुचिरमायाते प्रोषिते योषितो यथा
सुचिरं गतमायातमेकपुत्रा कथा सुतम्
सद्रत्नं सुचिरं भ्रष्टं प्राप्य हृष्टो यथा जनः
यथा सुचिरमन्धानां स्थितानां च निराश्रये
दुस्तरे सागरे घोरे पतितस्य च संकटे
तृष्णया शुष्ककण्ठानां सुचिराच्च सुशीतलम्
दावाग्निपतितानां च स्थितानां च निराश्रये
चिरं बुभुक्षितानां च व्रतोपोषणकारिणाम्
सदन्नं पुरतो दृष्ट्वा मनः पूर्णं तथा मम
प्रीत्या स्तनं ददौ तस्मै परमानन्दमानसा
चुचुम्ब गण्डे वेदोक्तं युयुजे चाशिषं मुदा
नारायण उवाच विविधानि च रत्नानि द्विजेभ्यो ददतुर्मुदा
बन्दिभ्यो भिक्षुकेभ्यश्च दानानि विविधानि च
हिमालयश्च रत्नानां ददौ लक्षं द्विजातये
दशलक्षं गवां चैव पञ्चलक्षं सुवर्णकम्
अन्यान्यपि च दानानि वस्त्राण्याभरणानि च
ब्राह्मणेभ्यो ददौ विष्णुः कौस्तुभं कौतुकान्वितः सुदुर्लभानि सृष्टौ च ब्राह्मणेभ्यो ददौ मुदा
धर्मः सूर्य्यश्च शक्रश्च देवाश्च मुनयस्तथा
माणिक्यानां सहस्राणि रत्नानां च शतानि च
हरिद्वर्णमणीन्द्राणां सहस्राणि मुदाऽन्विताः अमूल्यान्यन्यरत्नानि श्वेतवर्णानि कौतुकात्
शतलक्षं सुवर्णानां वह्निशुद्धांशुकानि च
हारं चामूल्यरत्नानां त्रिषु लोकेषु दुर्लभम्
परिष्कृतं च माणिक्यैर्हीरकैश्च विराजितम्
त्रैलोक्यसारं हारं च सद्रत्नगणनिर्मितम्
लक्षं सुवर्णलोष्टानां धनानि विविधानि च
दानानि दत्त्वा विप्रेभ्यस्ते सर्वे ददृशुः शिशुम्
भारं वोढुमशक्ताश्च ब्राह्मणा बन्दिनस्तथा
कथयन्ति कथाः सर्वे विश्रान्ताः पूर्वदायिनाम्