हव्यं पुष्पं जलं द्रव्यमशुचेश्च सुरासमम्
एतस्मिन्नन्तरे तत्र वाग् बभूवाशरीरिणी
शान्ता भव जगन्मातस्स्वसुतं पश्य मन्दिरे
सुपुण्यकव्रततरोः फलरूपं सनातनम्
ध्यायन्ति वैष्णवा देवा ब्रह्मविष्णुशिवादयः
यस्य स्मरणमात्रेण सर्वविघ्नो विनश्यति
कल्पे कल्पे ध्यायसि यं ज्योतीरूपं सनातनम्
तव वाञ्छापूर्णबीजं तपःकल्पतरोः फलम्
नायं विप्रः क्षुधाऽऽर्त्तश्च विप्ररूपी जनार्दनः सरस्वती त्वेवमुक्त्वा विरराम च नारद
त्रस्ता श्रुत्वाऽऽकाशवाणीं जगाम स्वालयं सती
पश्यन्तं गेहशिखरं शतचन्द्रसमप्रभम्
कुर्वन्तं भ्रमणं तल्पे पश्यन्तं स्वेच्छया मुदा
दृष्ट्वा तदद्भुतं रूपं त्रस्ता शंकरसन्निधिम्
पार्वत्युवाच कल्पे कल्पे ध्यायसि यं तं पश्यागत्य मन्दिरम्
शीघ्रं पुत्रमुखं पश्य पुण्यबीजं महोत्सवम्
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम्
सर्वदानेन यत्पुण्यं क्ष्माप्रदक्षिणतश्च यत्
सर्वैस्तपोभिर्यत्पुण्यं देवानशनैर्व्रतैः
यद्विप्रभोजनैः पुण्यं यदेव सुरसेवनैः
पार्वत्या वचनं श्रुत्वा शिवः संहृष्टमानसः ददर्श तल्पे स्वसुतं तप्तकाञ्चनसन्निभम्
हदयस्थं च यद्रूपं तदेवातिमनोहरम् चुचुम्बानन्दजलधौ निमग्ना सेत्युवाच तम्
संप्राप्यामूल्यरत्नं त्वां पूर्णमेव सनातनम्
कान्ते सुचिरमायाते प्रोषिते योषितो यथा
सुचिरं गतमायातमेकपुत्रा कथा सुतम्
सद्रत्नं सुचिरं भ्रष्टं प्राप्य हृष्टो यथा जनः
यथा सुचिरमन्धानां स्थितानां च निराश्रये
दुस्तरे सागरे घोरे पतितस्य च संकटे
तृष्णया शुष्ककण्ठानां सुचिराच्च सुशीतलम्
दावाग्निपतितानां च स्थितानां च निराश्रये
चिरं बुभुक्षितानां च व्रतोपोषणकारिणाम्