इन्द्रियद्रव्यसंयोगसुखं विध्वंसनावधि
हरिस्मरणशीलानां नायुर्याति सतां सती
चिरं जीवन्ति ते भक्ता भारते चिरजीविनः
जातिस्मरा हरेर्भक्ता जानते कोटिजन्मनः
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया
वैष्णवानां पदस्पर्शात्सद्यः पूता वसुन्धरा
गुरोरास्याद्विष्णुमन्त्रः श्रुतौ यस्य प्रविश्यति
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम्
मातामहानां पुरुषान्दश पूर्वान्दशापरान्
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये
न लिप्ताः पातकैर्भक्ताः सन्ततं हरिमानसाः
त्रिकोटिजन्मनामन्ते प्राप्नोति जन्म मानवम्
भक्तसङ्गाद्भवेद्भक्तेरङ्कुरो जीवितः सती
पुनः प्रफुल्लतां याति वैष्णवालापमात्रतः ७७ तत्तरोवर्द्धमानस्य हरिदास्यं फलं सति
महति प्रलये नाशो न भवेत्तस्य निश्चितम्
तस्मान्नारायणे भक्तिं देहि मामम्बिके सदा
तद्वन्तं लोकशिक्षार्थं स्वतपस्तव पूजनम्
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः
कृत्वाऽन्तर्धानमीशश्च बालरूपं विधाय सः
तल्पस्थे शिववीर्य्ये च मिश्रितः स बभूव ह
शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः
अतीव सुन्दरतनुः कामदेवविमोहनः
सुन्दरे लोचने बिभ्रच्चारुपद्मविनिन्दके
कपालं च कपोलं च परमं सुमनोहरम्
त्रैलोक्ये वै निरुपमं सर्वांगं बिभ्रदुत्तमम्
नारायण उवाच ब्राह्मणान्वेषणं कृत्वा बभ्राम परितो मुने
पार्वत्युवाच हे तात दर्शनं देहि प्राणान्वै रक्ष मे विभो
शिव शीघ्रं समुत्तिष्ठ ब्राह्मणान्वेषणं कुरु
अगृहीत्वा गृहात्पूजां गृहिणोऽतिथिरीश्वर
पितरस्तन्न गृह्णन्ति पिण्डदानं च तर्पणम्