ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
द्रव्याणि यानि भुक्त्वा मे चारु लम्बोदरं भवेत्
स्वामी ते त्रिजगत्कर्त्ता प्रदाता सर्वसम्पदाम्
रत्नसिंहासनं रम्यममूल्यं रत्नभूषणम्
सुदुर्लभं हरेर्मन्त्रं हरौ भक्तिं दृढां सति
ज्ञानं मृत्युञ्जयं नाम दातृशक्तिं सुखप्रदाम्
मनः सुनिर्मलं कृत्वा धर्मे तपसि सन्ततम्
स्वकामात्कुरुते कर्म कर्मणो भोग एव च
दुःखं न कस्माद्भवति सुखं वा जगदम्बिके
कर्म निर्मूलयन्त्येव सन्तो हि सततं मुदा
इन्द्रियद्रव्यसंयोगसुखं विध्वंसनावधि
हरिस्मरणशीलानां नायुर्याति सतां सती
चिरं जीवन्ति ते भक्ता भारते चिरजीविनः
जातिस्मरा हरेर्भक्ता जानते कोटिजन्मनः
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया
वैष्णवानां पदस्पर्शात्सद्यः पूता वसुन्धरा
गुरोरास्याद्विष्णुमन्त्रः श्रुतौ यस्य प्रविश्यति
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम्
मातामहानां पुरुषान्दश पूर्वान्दशापरान्
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये
न लिप्ताः पातकैर्भक्ताः सन्ततं हरिमानसाः
त्रिकोटिजन्मनामन्ते प्राप्नोति जन्म मानवम्
भक्तसङ्गाद्भवेद्भक्तेरङ्कुरो जीवितः सती
पुनः प्रफुल्लतां याति वैष्णवालापमात्रतः ७७ तत्तरोवर्द्धमानस्य हरिदास्यं फलं सति
महति प्रलये नाशो न भवेत्तस्य निश्चितम्
तस्मान्नारायणे भक्तिं देहि मामम्बिके सदा
तद्वन्तं लोकशिक्षार्थं स्वतपस्तव पूजनम्
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः
कृत्वाऽन्तर्धानमीशश्च बालरूपं विधाय सः
तल्पस्थे शिववीर्य्ये च मिश्रितः स बभूव ह