ब्राह्मण उवाच नानाविधं मिष्टमिष्टं भोक्तुं श्रुत्वा समागतः
सुव्रते तव पुत्रोऽहमग्रे मां पूजयिष्यसि
ताताः पञ्चविधाः प्रोक्ता मातरो विविधाः स्मृताः
विद्यादाताऽन्नदाता च भयत्राता च जन्मदः
गुरुपत्नी गर्भधात्री स्तनदात्री पितुः स्वसा
भृत्यः शिष्यश्च पोष्यश्च वीर्य्यजः शरणागतः
क्षुत्तृड्भ्यां पीडितो मातर्वृद्धोऽहं शरणागतः
पिष्टकं परमान्नं च सुपक्वानि फलानि च
पक्वान्नं स्वस्तिकं क्षीरमिक्षुमिक्षुविकारजम्
लड्डुकानि तिलानां च मिष्टान्नैः सगुडानि च
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
द्रव्याणि यानि भुक्त्वा मे चारु लम्बोदरं भवेत्
स्वामी ते त्रिजगत्कर्त्ता प्रदाता सर्वसम्पदाम्
रत्नसिंहासनं रम्यममूल्यं रत्नभूषणम्
सुदुर्लभं हरेर्मन्त्रं हरौ भक्तिं दृढां सति
ज्ञानं मृत्युञ्जयं नाम दातृशक्तिं सुखप्रदाम्
मनः सुनिर्मलं कृत्वा धर्मे तपसि सन्ततम्
स्वकामात्कुरुते कर्म कर्मणो भोग एव च
दुःखं न कस्माद्भवति सुखं वा जगदम्बिके
कर्म निर्मूलयन्त्येव सन्तो हि सततं मुदा
इन्द्रियद्रव्यसंयोगसुखं विध्वंसनावधि
हरिस्मरणशीलानां नायुर्याति सतां सती
चिरं जीवन्ति ते भक्ता भारते चिरजीविनः
जातिस्मरा हरेर्भक्ता जानते कोटिजन्मनः
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया
वैष्णवानां पदस्पर्शात्सद्यः पूता वसुन्धरा
गुरोरास्याद्विष्णुमन्त्रः श्रुतौ यस्य प्रविश्यति
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम्
मातामहानां पुरुषान्दश पूर्वान्दशापरान्
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये