व्रतं समाप्य सा दुर्गा दत्त्वा दानानि सस्मिता
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
पयःफेननिभां शय्यां रम्यां सद्रत्नमञ्चके रहसि स्वामिना सार्द्धं सुष्वाप परमेश्वरी
कैलासस्यैकदेशे च रम्ये चन्दनकानने
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुताश्रये
रेतःपतनकाले च स विष्णुर्विष्णुमायया
जटावन्तं विना तैलं कुचैलं भिक्षुकं मुने
अतीव कृशगात्रं च बिभ्रत्तिलकमुज्ज्वलम्
आजुहाव महादेवमतिवृद्धोऽन्नयाचकः
ब्राह्मण उवाच सप्तरात्रिव्रतेऽतीते पारणाकांक्षिणं क्षुधा
किं करोषि महादेव हे तात करुणानिधे
मातरुत्तिष्ठ मेऽन्नं त्वं प्रयच्छाद्य शिवं जलम्
मातर्मातर्जगन्मातरेहि नाहं स्थितो बहिः
इति काकुस्वरं श्रुत्वा शिवस्योत्तिष्ठतो मुने
उत्तस्थौ पार्वती त्रस्ता सूक्ष्मवस्त्रं पिधाय च
ददर्श ब्राह्मणं दीनं जरया परिपीडितम्
तपस्विनमशान्तं च शुष्ककण्ठौष्ठतालुकम्
श्रुत्वा तद्वचनं तत्र नीलकण्ठः सुधोपमम्
शंकर उवाच किन्नाम भवतः क्षिप्रं ज्ञातुमिच्छामि साम्प्रतम्
पार्वत्युवाच अद्य मे सफलं जन्म ब्राह्मणो मद्गृहेऽतिथिः
अतिथिः पूजितो येन त्रिजगत्तेन पूजितम्
तीर्थान्यतिथिपादेषु शश्वत्तिष्ठन्ति निश्चितम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
महादानानि सर्वाणि कृतानि तेन भूतले
नानाप्रकारपुण्यानि वेदोक्तानि च यानि वै
अपूजितोऽतिथिर्यस्य भवनाद्विनिवर्त्तते
यानि कानि च पापानि ब्रह्महत्यादिकानि च
ब्राह्मण उवाच क्षुत्तृड्भ्यां पीडितो मातर्वचनं च श्रुतौ श्रुतम्
व्याधियुक्तो निराहारो यदा वाऽनशनव्रती
पार्वत्युवाच दास्यामि भोक्तुं त्वामद्य मज्जन्म सफलं कुरु