निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः सगुणस्त्वं प्राकृतिकः कलया सृष्टिहेतवे
प्रकृतिस्त्वं पुमांस्त्वं च वेदाऽन्यो न क्वचिद्भवेत्
कर्म त्वं कर्मबीजं त्वं कर्मणां फलदायकः केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम्
वैष्णवाश्चैव साकारं कमनीयं मनोहरम्
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम्
एवं तेजस्विनं भक्ताः सेवन्ते सन्ततं मुदा १३. आविर्भूता सुराणां च वधाय ब्रह्मणा स्तुता
नित्या तेजस्त्वरूपाऽहं धृत्वा वै विग्रहं विभो
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि
शृङ्गारजं च तत्तेजो नालभं देवमायया
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि साम्प्रतम्
श्रुत्वा सर्वं कृपासिन्धो कृपां मे कर्तुमर्हसि
भारते पार्वतीस्तोत्रं यः शृणोति सुसंयतः
संवत्सरं हविष्याशी हरिमभ्यर्च्य भक्तितः
विष्णुस्तोत्रमिदं ब्रह्मन्सर्वसम्पत्तिवद्धर्नम्
सर्वसौन्दर्य्यबीजं च यशोराशिविवर्द्धनम्
नारायण उवाच स्वरूपं दर्शयामास सर्वादृश्यं सुदुर्लभम्
स्तुत्वा देवी व्रतपरा कृष्णसंलग्नमानसा
सद्रत्नसाररचिते हीरकेण परिष्कृते
पीतांशुकं वह्निशुद्धं वरं वंशकरं परम्
किशोरवयसं चित्रवेषं वै चन्दनांकितम्
मालतीमाल्यसंयुक्तं केकिपिच्छावचूडकम्
कोटिकन्दर्पलावण्यलीलाधाम मनोहरम्
दृष्ट्वा रूपं रूपवती पुत्रं तदनुरूपकम्
कुमारं बोधयित्वा तु देवदेव्यै दिगम्बरम्
ब्राह्मणेभ्यो ददौ दुर्गा रत्नानि विविधानि च
ब्राह्मणान्भोजयामास देवान्वै पर्वतांस्तथा
दुन्दुभिं वादयामास कारयामास मंगलम्