सावित्र्युवाच किं स्तौमि स्त्रीस्वभावेन सर्वकारणकारणम्
लक्ष्मीरुवाच किं स्तौमि त्वत्कलासृष्टा जगतां बीजकारणम्
हिमालय उवाच स्तोतुं समुद्यतं क्षुद्रः किं स्तौमि स्तोतुमक्षमः
क्रमेण सर्वे तं स्तुत्वा देवा विररमुर्मुने
धौतवस्त्रा जटाभारं बिभ्रती सुव्रता व्रते
ज्वलदग्निशिखारूपा तेजोमूर्तिमती सती
पार्वत्युवाच के वा जानन्ति वेदज्ञा वेदा वा वेदकारकाः
त्वदंशास्त्वां न जानन्ति कथं ज्ञास्यन्ति ते कलाः
सूक्ष्मात्सूक्ष्मतमोऽव्यक्तः स्थूलात्स्थूलतमो महान्
कार्य्यं त्वं कारणं त्वं च कारणानां च कारणम्
निर्लिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः सगुणस्त्वं प्राकृतिकः कलया सृष्टिहेतवे
प्रकृतिस्त्वं पुमांस्त्वं च वेदाऽन्यो न क्वचिद्भवेत्
कर्म त्वं कर्मबीजं त्वं कर्मणां फलदायकः केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम्
वैष्णवाश्चैव साकारं कमनीयं मनोहरम्
द्विभुजं कमनीयं च किशोरं श्यामसुन्दरम्
एवं तेजस्विनं भक्ताः सेवन्ते सन्ततं मुदा १३. आविर्भूता सुराणां च वधाय ब्रह्मणा स्तुता
नित्या तेजस्त्वरूपाऽहं धृत्वा वै विग्रहं विभो
मायया तव मायाऽहं मोहयित्वाऽसुरान्पुरा
ततोऽहं संस्तुता देवैस्तारकाक्षेण पीडितैः
त्यक्त्वा देहं दक्षयज्ञे शिवाऽहं शिवनिन्दया
अनेकतपसा प्राप्तः शिवश्चात्रापि जन्मनि
शृङ्गारजं च तत्तेजो नालभं देवमायया
व्रते भवद्विधं पुत्रं लब्धुमिच्छामि साम्प्रतम्
श्रुत्वा सर्वं कृपासिन्धो कृपां मे कर्तुमर्हसि
भारते पार्वतीस्तोत्रं यः शृणोति सुसंयतः
संवत्सरं हविष्याशी हरिमभ्यर्च्य भक्तितः
विष्णुस्तोत्रमिदं ब्रह्मन्सर्वसम्पत्तिवद्धर्नम्
सर्वसौन्दर्य्यबीजं च यशोराशिविवर्द्धनम्
नारायण उवाच स्वरूपं दर्शयामास सर्वादृश्यं सुदुर्लभम्
स्तुत्वा देवी व्रतपरा कृष्णसंलग्नमानसा