अविद्यो वा सविद्यो वा संध्यापूतो हि यो द्विजः 1.11.
घ्नन्तं विप्रं शपन्तं वा न हन्यान्न च तं शपेत्। गोभ्यः शतगुणं पूज्यो हरिभक्तश्च स स्मृतः
पादोदकं च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज
एकादश्यां न भुङ्क्ते यो नित्यं कृष्णं समर्चयेत्
यो भुङ्क्ते भोजनोच्छिष्टं नित्यं नैवेद्यभोजनम्
अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम्
ब्रह्मा च ब्रह्मपुत्राश्च सर्वे विष्णुपरायणाः
पित्रोर्मातामहादीनां संसर्गस्य गुरोश्च वा
स किंगुरुः स किंतातः स किंपुत्रः स किंसखा
अवैष्णवाद्द्विजाद्विप्र चण्डालो वैष्णवो वरः
सन्ध्याहीनोऽशुचिर्नित्यं कृष्णे वा विमुखो द्विजः 1.11.
गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे प्रविश्यति
पुंसां मातामहादीनां शतैः सार्द्धं हरेः पदम्
ब्रह्मक्षत्त्रियविट्शूद्राश्चतस्रो जातयो यथा
ध्यायन्ति वैष्णवाः शश्वद्गोविन्दपदपङ्कजम्
सुदर्शनं संनियोज्य भक्तानां रक्षणाय च
शौनक उवाच उपालम्भेन प्रस्तावात्कौतुकेन श्रुता मया
प्रजा वा ससृजुः के वा ऊर्ध्वरेताश्च कश्चन
पितुः शापेन पुत्रस्य किं बभूव विरोधतः
सौतिरुवाच अपान्तरतमाश्चैव सनकाद्याश्च शौनक
एतैर्विनाऽन्ये बहवो ब्रह्मपुत्राश्च सन्ततम्
अपूज्यः पुत्रशापेन स्वयं ब्रह्मा प्रजापतिः
नारदो गुरुशापेन गन्धर्वश्च बभूव सः
गन्धर्वराजः सर्वेषां गन्धर्वाणां वरो महान्
गुर्वाज्ञया पुष्करे स परमेण समाधिना
शिवस्य कवचं स्तोत्रं मन्त्रं च द्वादशाक्षरम् 1.12.
जजाप परमं मन्त्रं दिव्यं वर्षशतं मुने
विरामे शतवर्षस्य ददर्श पुरतः शिवम्
महत्तेजस्स्वरूपं च भगवन्तं सनातनम्
तपोरूपं तपोबीजं तपस्याफलदं फलम्