सुरेश्वरा मदंशाश्च ब्रह्मशक्तिमहेश्वराः
मृदा विना घटं कर्त्तुं कुलालश्च यथाऽक्षमः
विना शक्त्या तथाऽहं च स्वसृष्टिं कर्तुमक्षमः
अहमात्मा हि निर्लिप्तोऽदृश्यः साक्षी च देहिनाम्
अहं नित्यः शरीरी च भानुविग्रहविग्रहः
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः
मेधा निद्रादयश्चैताः सर्वाश्च प्रकृतेः कलाः
अहं गोलोकनाथश्च वैकुण्ठेशः सनातनः चतुर्भुजोऽत्र देवेशो लक्ष्मीशः पार्षदैर्वृतः
ऊर्ध्व परश्च वैकुण्ठात्पञ्चाशत्कोटियोजने
व्रताराध्यस्स द्विभुजः स च तत्फलदायकः
विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः
यज्ञपत्नीं यथा दातुं क्षमः स्वामी सदैव तु
इत्युक्त्वा स सभामध्ये तत्रैवान्तरधीयत
कृत्वा शिवा पूर्णहोमं सा शिवं दक्षिणां ददौ
उवाच दुर्गा संत्रस्ता शुष्ककण्ठौष्ठतालुका
पार्वत्युवाच गवां लक्षं प्रयच्छामि देहि मत्स्वामिनं द्विज
तदा दास्यामि विप्रेभ्यो दानानि विविधानि च
सनत्कुमार उवाच दत्तस्यामूल्य रत्नस्य गवां प्रत्यर्पणेन च
स्वस्य स्वस्य स्वयं दाता लोकः सर्वो जगत्त्रये
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्त्रयम्
इत्युक्त्वा ब्रह्मणः पुत्रो गृहीत्वा शङ्करं मुने
दृष्ट्वा शिवं गृह्यमाणं कुमारेण च पार्वती
विचिन्त्य मनसा साध्वीत्येवमेव दुरत्ययम्
एतस्मिन्नन्तरे देवाः पार्वतीसहितास्तदा
कोटिसूर्य्यप्रभोर्ध्वं च प्रज्वलन्तं दिशो दश
विष्णुरुवाच सोऽयं ते षोडशांशश्च के वयं यो महाविराट्
ब्रह्मोवाच स्तोतुं तद्वर्णितुमहं शक्तः किं स्तौमि तत्परः
देवा उचुः स्तोतुं न शक्ता वेदा यं न च शक्ता सरस्वती
मुनय उचुः स्तोतुमीशा न वाणी च त्वां वाङ्मनसयोः परम्
सरस्वत्युवाच किञ्चिन्न शक्ता त्वां स्तोतुमहो वाङ्मनसोः परम्