वासयामास तं ते च रत्नसिंहासने वरे
सम्पुटाञ्जलयः सर्वे पुलकाङ्गाश्रुलोचनाः
सस्मितस्तांश्च पप्रच्छ सर्वं मधुरया गिरा
श्रीनारायण उवाच सर्वे शक्त्या यया विश्वे शक्तिमन्तो हि जीविनः
ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं जगत्
आविर्भूता च सा मत्तः सृष्टौ देवी मदिच्छया
प्रकृतिः सृष्टिकर्त्री च सर्वेषां जननी परा
सुचिरं तपसा तप्तं शंभुना ध्यायता च माम्
व्रतं च लोकशिक्षार्थमस्या न स्वार्थमेव च
मायया मोहिताः सर्वे किमस्या वास्तवं व्रतम्
सुरेश्वरा मदंशाश्च ब्रह्मशक्तिमहेश्वराः
मृदा विना घटं कर्त्तुं कुलालश्च यथाऽक्षमः
विना शक्त्या तथाऽहं च स्वसृष्टिं कर्तुमक्षमः
अहमात्मा हि निर्लिप्तोऽदृश्यः साक्षी च देहिनाम्
अहं नित्यः शरीरी च भानुविग्रहविग्रहः
अहमात्मा मनो ब्रह्मा ज्ञानरूपो महेश्वरः
मेधा निद्रादयश्चैताः सर्वाश्च प्रकृतेः कलाः
अहं गोलोकनाथश्च वैकुण्ठेशः सनातनः चतुर्भुजोऽत्र देवेशो लक्ष्मीशः पार्षदैर्वृतः
ऊर्ध्व परश्च वैकुण्ठात्पञ्चाशत्कोटियोजने
व्रताराध्यस्स द्विभुजः स च तत्फलदायकः
विष्णुदेहा यथा गावो विष्णुदेहस्तथा शिवः
यज्ञपत्नीं यथा दातुं क्षमः स्वामी सदैव तु
इत्युक्त्वा स सभामध्ये तत्रैवान्तरधीयत
कृत्वा शिवा पूर्णहोमं सा शिवं दक्षिणां ददौ
उवाच दुर्गा संत्रस्ता शुष्ककण्ठौष्ठतालुका
पार्वत्युवाच गवां लक्षं प्रयच्छामि देहि मत्स्वामिनं द्विज
तदा दास्यामि विप्रेभ्यो दानानि विविधानि च
सनत्कुमार उवाच दत्तस्यामूल्य रत्नस्य गवां प्रत्यर्पणेन च
स्वस्य स्वस्य स्वयं दाता लोकः सर्वो जगत्त्रये
दिगम्बरं पुरः कृत्वा भ्रमिष्यामि जगत्त्रयम्