दाता च नरकं याति यावद्वर्षसहस्रकम् धर्मो नष्टो भवेत्तस्य धर्म्महीने च कर्म्मणि
ब्रह्मोवाच धर्मे नष्टे च धर्मज्ञे तस्य कर्ता विनश्यति
धर्म उवाच मयि स्थिते महासाध्वि सर्वं भद्रं भविष्यति
देवा ऊचुः वयं तव व्रते पूर्णे कुर्मस्त्वां पूर्णमानसाम्
मुनय ऊचुः स्थितेष्वस्मासु धर्मज्ञे किमभद्रं भविष्यति
सनत्कुमार उवाच सुचिरं संचितस्यापि स्वात्मनस्तपसः फलम्
कर्मण्यदक्षिणे साध्वि यागस्याहं तु तत्फलम्
पार्वत्युवाच किं पुत्रेण च धर्मेण यत्र भर्त्ता च दक्षिणा
वृक्षार्चने फलं किं वै यदि भूमिर्न चार्च्यते
प्राणास्त्यक्ताः स्वेच्छया चेद्देहैस्स्यात्किं प्रयोजनम्
शतपुत्रसमः स्वामी साध्वीनां च सुरेश्वराः
भर्तुर्वंशश्च तनयः केवलं भर्तृमूलकः
श्रीविष्णुरुवाच नष्टे धर्मे च धर्मिष्ठे स्वामिना किं सुतेन वा
ब्रह्मोवाच सत्यं संकल्पितं कर्म न तु भ्रष्टं कुरु व्रतम्
पार्वत्युवाच तद्यस्यास्तीति स स्वामी वेदज्ञ शृणु मद्वचः
तस्य दाता सदा स्वामी न च स्वस्वामितां लभेत्
धर्म्म उवाच दम्पती ध्रुवमेकाङ्गौ द्वयोर्दाने द्वकौ समौ
पार्वत्युवाच न श्रुतं विपरीतं च श्रुतौ श्रुतिपरायणाः
देवा ऊचुः वेदज्ञे वेदवादेषु के वा त्वां जेतुमीश्वराः
निरूपिता पुण्यके तु व्रते स्वामी च दक्षिणा
पार्वत्युवाच बलवाँल्लौकिको वेदाल्लोकाचारं च कस्त्यजेत्
वेदे प्रकृतिपुंसोश्च गरीयान्पुरुषो ध्रुवम्
बृहस्पतिरुवाच श्रीकृष्णश्च द्वयोः स्रष्टा समौ प्रकृतिपूरुषौ
पार्वत्युवाच पुमान्गरीयान्प्रकृतेस्तथैव न ततश्च सा
एतस्मिन्नन्तरे देवा मुनयस्तत्र संसदि
पार्षदैस्संपरिवृतं युतं श्यामैश्चतुर्भुजैः अवरुह्य मुदा यानादाजगाम सभातलम्
तुष्टुवुस्तं सुरेन्द्रास्ते देवं वैकुण्ठवासिनम्
लक्ष्मीसरस्वतीकान्तं शान्तं तं सुमनोहरम्
कोटिकन्दर्पलावण्यं कोटिचन्द्रसमप्रभम्
सेव्यं ब्रह्मादिदेवैश्च सेवकैः सततं स्तुतम्