विपरीतं त्रिजगतामेतेषां पूजनं विना
एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः
इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले
नारायण उवाच उवाच पार्वतीं प्रीत्या हरिसंलापमङ्गलम्
शिवाज्ञां च समादाय शिवा संहृष्टमानसा
सुस्नाता सुदती शुद्धा बिभ्रती धौतवाससी
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम्
रत्नासनस्था रत्नाढ्या रत्नोद्भवसुता सती
रत्नसिंहासनस्थं च संपूज्य सुपुरोहितम्
संस्थाप्य पुरतो भक्त्या दिक्पालान्रत्नभूषितान्
समर्च्य परया भक्त्या ब्रह्मविष्णुमहेश्वरान्
वह्निशुद्धैस्सुवस्त्रैश्च सद्रत्नैर्भूषणैस्तथा समारेभे व्रतं देवी स्वस्तिवाचनपूर्वकम्
आवाह्याभीष्टदेवं तं श्रीकृष्णं मंगले घटे
यानि व्रते विधेयानि देयानि विविधानि च
व्रतोक्तमुपहारं च दुर्लभं भुवनत्रये
दत्त्वा द्रव्याणि सर्वाणि वेदमन्त्रेण सा सती ब्राह्मणान्भोजयामास पूजयित्वाऽतिथींस्तथा
भोजयामास सा देवी सुव्रते सुव्रता सती
समाप्तिदिवसे विप्रस्तमुवाच पुरोहितः
इति तद्वचनं श्रुत्वा विलप्य सुरसंसदि
तां च ते मूर्च्छितां दृष्ट्वा प्रहस्य मुनिपुंगवाः
संप्रार्थितः सभासद्भिः शिवां बोधयितुं तदा
श्रीमहादेव उवाच साम्प्रतं चेतनं कृत्वा मदीयं वचनं शृणु
शिवः शिवां तामित्युक्त्वा शुष्ककण्ठौष्ठतालुकाम्
हितं सत्यं मितं सर्वं परिणामसुखावहम्
शृणु देवि प्रवक्ष्यामि यद्वेदेन निरूपितम्
सर्वेषां कर्म्मणां देवि सारभूता च दक्षिणा
दैवं वा पैतृकं वाऽपि नित्यं नैमित्तिकं प्रिये दाता च कर्म्मणा तेन कालसूत्रं व्रजेद्ध्रुवम्
अथान्ते दैन्यमाप्नोति शत्रुणा परिपीडितः
तन्मुहूर्ते व्यतीते तु दक्षिणा द्विगुणा भवेत्
मासे पञ्चशतघ्ना स्यात्षण्मासे तच्चतुर्गुणा