यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम्
नानाविधानि द्रव्याणि यस्माद्देयानि पुण्यके
शनिदृष्ट्या शिरश्छेदाद्गजवक्त्रेण योजितः
दन्तभङ्गः परशुना पर्शुरामस्य वै यतः
पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः
पूजासु सर्वदेवानामग्रे संपूज्य तं जनः
गणेशपूजने विघ्नं निर्मूलं जगतां भवेत्
मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम्
स्वबुद्धिशुद्धिजननं कीर्त्तितं वह्निपूजनम्
दाता भोक्ता च भवति शंकराग्निनिषेवणात्
विपरीतं त्रिजगतामेतेषां पूजनं विना
एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः
इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले
नारायण उवाच उवाच पार्वतीं प्रीत्या हरिसंलापमङ्गलम्
शिवाज्ञां च समादाय शिवा संहृष्टमानसा
सुस्नाता सुदती शुद्धा बिभ्रती धौतवाससी
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम्
रत्नासनस्था रत्नाढ्या रत्नोद्भवसुता सती
रत्नसिंहासनस्थं च संपूज्य सुपुरोहितम्
संस्थाप्य पुरतो भक्त्या दिक्पालान्रत्नभूषितान्
समर्च्य परया भक्त्या ब्रह्मविष्णुमहेश्वरान्
वह्निशुद्धैस्सुवस्त्रैश्च सद्रत्नैर्भूषणैस्तथा समारेभे व्रतं देवी स्वस्तिवाचनपूर्वकम्
आवाह्याभीष्टदेवं तं श्रीकृष्णं मंगले घटे
यानि व्रते विधेयानि देयानि विविधानि च
व्रतोक्तमुपहारं च दुर्लभं भुवनत्रये
दत्त्वा द्रव्याणि सर्वाणि वेदमन्त्रेण सा सती ब्राह्मणान्भोजयामास पूजयित्वाऽतिथींस्तथा
भोजयामास सा देवी सुव्रते सुव्रता सती
समाप्तिदिवसे विप्रस्तमुवाच पुरोहितः
इति तद्वचनं श्रुत्वा विलप्य सुरसंसदि
तां च ते मूर्च्छितां दृष्ट्वा प्रहस्य मुनिपुंगवाः