सा च नारायणी माया मूलप्रकृतिरीश्वरी
सा च तेजस्स्वरूपा च स्वेच्छाविग्रहधारिणी
निहत्य दैत्यसंघांश्च दक्षपत्न्यां च भारते
त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया
गृहीत्वा विग्रहं तस्या गुणरूपाश्रय परम्
प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे
करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा
राजसूयसहस्राणां व्रते यत्र धनव्ययः
स्वयं भूतेशनाथस्त्वं पुण्यकस्य प्रभावतः
स्वयं देवगणानां स यस्मादीशः कृपानिधिः
यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम्
नानाविधानि द्रव्याणि यस्माद्देयानि पुण्यके
शनिदृष्ट्या शिरश्छेदाद्गजवक्त्रेण योजितः
दन्तभङ्गः परशुना पर्शुरामस्य वै यतः
पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः
पूजासु सर्वदेवानामग्रे संपूज्य तं जनः
गणेशपूजने विघ्नं निर्मूलं जगतां भवेत्
मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम्
स्वबुद्धिशुद्धिजननं कीर्त्तितं वह्निपूजनम्
दाता भोक्ता च भवति शंकराग्निनिषेवणात्
विपरीतं त्रिजगतामेतेषां पूजनं विना
एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः
इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले
नारायण उवाच उवाच पार्वतीं प्रीत्या हरिसंलापमङ्गलम्
शिवाज्ञां च समादाय शिवा संहृष्टमानसा
सुस्नाता सुदती शुद्धा बिभ्रती धौतवाससी
आम्रपल्लवसंयुक्तं फलाक्षतसुशोभितम्
रत्नासनस्था रत्नाढ्या रत्नोद्भवसुता सती
रत्नसिंहासनस्थं च संपूज्य सुपुरोहितम्
संस्थाप्य पुरतो भक्त्या दिक्पालान्रत्नभूषितान्