श्रीनारायण उवाच विरराम सभामध्ये स्तुत्वा च कमलापतिम्
शङ्करस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः
श्रीविष्णुरुवाच स्वामिसौभाग्यबीजं च पत्नी ते कर्तुमिच्छति
सर्वासाध्यं दुराराध्यं सर्वकामफलप्रदम्
आत्मा साक्षिस्वरूपश्च ज्योतीरूपः सनातनः
भक्तप्राणश्च भक्तेशो भक्तानुग्रहकारकः
भक्त्यधीनो हि भगवान्सर्वसिद्धो हि निष्फलः
उग्रग्रहो ग्रहाणां च ग्रहनिग्रहकारकः। त्रिकोटिजन्ममध्ये च न साध्यो भवता विना
लब्धवा हि भारते जन्म हरिभक्तिं लभेन्नरः
सूर्य्यमन्त्रमवाप्नोति केवलं स तदाशिषा
प्राप्नोति शैवं मन्त्रं च सर्वदं मानवो मुदा
प्राप्नोति मायामन्त्रं च त्वत्पदाब्जप्रसादतः
नारायणकलां सेव्यां समवाप्नोति मानवः
कृष्णभक्तिमवाप्नोति भक्तसंसर्गहैतुकीम्
प्राप्नोति परिपक्वां च भक्तिं भक्तनिषेवया श्रीकृष्णमन्त्रं प्राप्नोति निर्वाणफलदं परम्
कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम्
महति प्रलये पातः सर्वेषां वै सुनिश्चितम्
अविनाशिनि गोलोके मोदन्ते कृष्णकिंकराः
त्वं संहर्त्ता च सर्वेषां न भक्तानां महेश्वर
माया नारायणी माता सर्वेषां कृष्णभक्तिदा
सा च नारायणी माया मूलप्रकृतिरीश्वरी
सा च तेजस्स्वरूपा च स्वेच्छाविग्रहधारिणी
निहत्य दैत्यसंघांश्च दक्षपत्न्यां च भारते
त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया
गृहीत्वा विग्रहं तस्या गुणरूपाश्रय परम्
प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे
करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा
राजसूयसहस्राणां व्रते यत्र धनव्ययः
स्वयं भूतेशनाथस्त्वं पुण्यकस्य प्रभावतः
स्वयं देवगणानां स यस्मादीशः कृपानिधिः