उच्चैः सिंहासनेष्वेते पूजिताः शङ्करेण च
दानाध्यक्षः शुनासीरः कुबेरः कोशरक्षकः
दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च
माध्वीकानां सहस्राणि तैलानां च शतानि च
पीयूषाणां च कुम्भानि शतलक्षाणि नारद यवगोधूमचूर्णानां घृताक्तानां च नारद
स्वस्तिकानां च पूर्णानां बभूवुर्लक्षराशयः
शालीनां पृथुकानां च राशीनां दशकोटयः
स्वर्णरौप्यप्रवालानां मणीनां च महामुने
पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम्
बुभुजे देवर्षिगणैः शिवो नारायणेन च
ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम्
रत्नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम्
ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा
गन्धर्वाणां च संगीतं श्रुतवन्तं मनोहरम्
ब्रह्मणा प्रेरितो युक्तं व्रतं कर्त्तव्यमीप्सितम्
श्रीमहादेव उवाच तपस्स्वरूप तपसां कर्मणां च फलप्रद
व्रतानां जपयज्ञानां पूजानां सर्वपूजित
सुपुण्यं च व्रतं कर्त्तुं ब्रह्मन्निच्छति पार्वती
रतिभंगे कृते देवैर्व्यर्थवीर्य्यशुचार्दिता
सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते
पुरा त्यक्त्वा स्वदेहं च पितृयज्ञे च मानिनी
सर्वं जानासि वृत्तान्तं सर्वज्ञं त्वां वदामि किम्
दुर्निवार्य्यश्च सर्वेश स्त्रीस्वभावश्च चापलः
जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम्
ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम्
मोक्षद्वारकपाटं च हरिभक्तिनिरोधनम्
वैराग्यनाशबीजं च शश्वद्रागविवर्द्धनम्
अप्रत्ययानां क्षेत्रं च स्वयं कपटमूर्तिमत्
सर्वैरसाध्यमानं च दुराराध्यं च सर्वदा
सर्वं निवेदितं ब्रह्मन्कर्त्तव्यं वक्तुमर्हसि