एते चान्ये च बहवः सशिष्या मुनयो मुने
दिक्पालाश्च तथा देवा यक्षगन्धर्वकिन्नराः
हिमालयः शैलराजः सापत्यश्च सभार्यकः
तथा सम्भृतसम्भारो नानाद्रव्यसमन्वितः
नानाप्रकारवस्तूनि जगत्यां दुर्लभानि च
दशलक्षं गवां रत्नं शतलक्षं सुवर्णकम्
मुक्तानां च चतुर्लक्षं कौस्तुभानां सहस्रकम् अनन्तरत्नप्रभव आजगाम सुताव्रते
ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा
कैलासराजमार्गं च चन्दनेन सुसंस्कृतम्
दूर्वाधान्यफलैः पर्णलाजपुष्पैर्विभूषितम्
उच्चैः सिंहासनेष्वेते पूजिताः शङ्करेण च
दानाध्यक्षः शुनासीरः कुबेरः कोशरक्षकः
दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च
माध्वीकानां सहस्राणि तैलानां च शतानि च
पीयूषाणां च कुम्भानि शतलक्षाणि नारद यवगोधूमचूर्णानां घृताक्तानां च नारद
स्वस्तिकानां च पूर्णानां बभूवुर्लक्षराशयः
शालीनां पृथुकानां च राशीनां दशकोटयः
स्वर्णरौप्यप्रवालानां मणीनां च महामुने
पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम्
बुभुजे देवर्षिगणैः शिवो नारायणेन च
ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम्
रत्नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम्
ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा
गन्धर्वाणां च संगीतं श्रुतवन्तं मनोहरम्
ब्रह्मणा प्रेरितो युक्तं व्रतं कर्त्तव्यमीप्सितम्
श्रीमहादेव उवाच तपस्स्वरूप तपसां कर्मणां च फलप्रद
व्रतानां जपयज्ञानां पूजानां सर्वपूजित
सुपुण्यं च व्रतं कर्त्तुं ब्रह्मन्निच्छति पार्वती
रतिभंगे कृते देवैर्व्यर्थवीर्य्यशुचार्दिता
सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते