अदितिश्च व्रतं कृत्वा लेभे वामनकं सुतम्
उत्तानपादपत्नीदं कृत्वा लेभे ध्रुवं सुतम्
सूर्य्यपत्नी मनुं लेभे कृत्वेदं व्रतमुत्तमम्
लेभे चांगिरसः पत्नी कृत्वेदं व्रतमुत्तमम्
भृगोर्भार्य्या व्रतं कृत्वा लेभे दैत्यगुरुं सुतम्
इत्येवं कथितं देवि व्रतानां व्रतमुत्तमम्
साध्यं राजेन्द्रपत्नीनां देवीनां च सुखावहम्
व्रतस्यास्य प्रभावेण स्वयं गोपाङ्गनेश्वरः
इत्युक्त्वा शंकरस्तत्र विरराम च नारद
इति श्रीबह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यकव्रतकथनं नाम पञ्चमोऽध्यायः
शौनक उवाच किं पप्रच्छ पुनः साधो तन्मे ब्रूहि तपोधन
सूत उवाच व्रतारम्भविधानं च संप्रष्टुमुपचक्रमे
नारद उवाच तन्मे ब्रूहि मुनिश्रेष्ठ पार्वत्या भर्तुराज्ञया
ललाभ जन्म भूतेशः कृते सुव्रतया व्रते
नारायण उवाच स्वयं विधाता तपसां जगाम तपसे शिवः
हरेराराधनव्यग्रो मूर्त्तिभेदधरो हरिः
परमानन्दपूर्णश्च ज्ञानानन्दः सनातनः
प्रहृष्टमनसा देवी पार्वती भर्तुराज्ञया
आनीय सर्वद्रव्याणि व्रते योग्यानि यानि च
सनत्कुमारो भगवानाजगाम विधेः सुतः
ब्रह्माऽऽजगाम हृष्टश्च ब्रह्मलोकात्सभार्य्यकः
विष्णुः क्षीरोदशायी च सलक्ष्मीकश्चतुर्भुजः
वनमालाधर श्यामो भूषितो रत्नभूषणैः
सनकश्च सनन्दश्च कपिलश्च सनातनः
यतिश्च सुमतिश्चैव वसिष्ठश्च सहानुगः
अगस्त्यश्च प्रचेताश्च दुर्वासाश्च्यवनस्तथा
बृहस्पतिरुतथ्यश्च संवर्तः सौभरिस्तथा
गोकामुखो वक्ररथः पारिभद्रः पराशरः
मार्कण्डेयो मृकण्डुश्च पुष्करो लोमशस्तथा
कात्यायनः कणादश्च पाणिनिः शाकटायनः