सर्ववाञ्छितसिद्धीनां बीजं जन्मनि जन्मनि
पुत्रस्ते भविता साध्वीत्युक्त्वा स विरराम ह
नारायण उवाच पुनः पप्रच्छ कान्तं सा दिव्यां व्रतकथां शुभाम्
श्रीपार्वत्युवाच अधिकां तत्कथां ब्रूहि व्रतं केन प्रकाशितम्
अथ पुण्यकव्रतकथा शतरूपा मनोः पत्नी पुत्रदुःखेन दुःखिता
शतरूपोवाच तन्मे ब्रूहि जगद्धातः सृष्टिकारणकारण
तज्जन्म निष्फलं ब्रह्मन्नैश्वर्य्यं धनमेव च
तपोदानोद्भवं पुण्यं जन्मांतरसुखावहम्
पुत्री पुत्रमुखं दृष्ट्वा चाश्वमेधशतोद्भवम्
पुत्रोत्पत्तेरुपायं वै वद मां तापसंयुताम्
अपुत्रिणो मुखं द्रष्टुं विद्वान्नोत्सहते ऽशिवम्
अथवा गरलं भुक्त्वा प्रवेक्ष्यामि हुताशनम्
इत्येवमुक्त्वा सा साक्षाद्ब्रह्मणोऽग्रे रुरोद ह
ब्रह्मोवाच सर्वैश्वर्य्यादिबीजं च सर्ववाञ्छाप्रदं शुभम्
माघशुक्लत्रयोदश्यां व्रतमेतत्सुपुण्यकम्
संवत्सरं च कर्तव्यं सर्वविघ्नविनाशनम्
व्रतं च काण्वशाखोक्तं सर्ववाञ्छितसिद्धिदम्
ब्रह्मणश्च वचः श्रुत्वा सा कृत्वा व्रतमुत्तमम्
व्रतं कृत्वा देवहूतिर्लेभे सिद्धेश्वरं सुतम्
अरुन्धतीदं कृत्वा तु लेभे शक्तिसुतं शुभा
अदितिश्च व्रतं कृत्वा लेभे वामनकं सुतम्
उत्तानपादपत्नीदं कृत्वा लेभे ध्रुवं सुतम्
सूर्य्यपत्नी मनुं लेभे कृत्वेदं व्रतमुत्तमम्
लेभे चांगिरसः पत्नी कृत्वेदं व्रतमुत्तमम्
भृगोर्भार्य्या व्रतं कृत्वा लेभे दैत्यगुरुं सुतम्
इत्येवं कथितं देवि व्रतानां व्रतमुत्तमम्
साध्यं राजेन्द्रपत्नीनां देवीनां च सुखावहम्
व्रतस्यास्य प्रभावेण स्वयं गोपाङ्गनेश्वरः
इत्युक्त्वा शंकरस्तत्र विरराम च नारद
इति श्रीबह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे पुण्यकव्रतकथनं नाम पञ्चमोऽध्यायः